________________
: २४ :
तस्वन्यायविभाकरे
[ द्वितीयकिरणे
वक्तुं शक्यमन्यथा ज्ञानस्वरूपो न जानीते चेति विरुद्धं वचनं स्यात्, तथा विस्मृत्यनवबोधसंशया अपि न भवेयुः स्याच्चात्मा सर्वदाऽशेषविशेषविज्ञानात्मक इति शङ्कापि परास्ता, प्रदेशाष्टकं विहाय चलत्वेनानवरतमर्थान्तरेषु परिणमनात्, एकार्थेऽनवस्थितोङ्क्रान्तमनस्कत्वेन चिरमुपयोगाभावात् । उपयोगस्थितिकालस्य स्वभावादेवोत्कर्षेणान्तर्मुहूर्त्त परिमाणत्वात् । 5 आवरणस्वभावज्ञानावरणकर्म सद्भावात्कदाचिद्विज्ञानस्याव्यक्तबोध संशयादीनाश्चोपपत्तेश्चेति ॥
नन्वस्तु चेतनालक्षणो जीवस्स त्वेक एव निखिलजगच्छरीराण्यभिव्याप्य शश्वद्वर्तते, नतु प्रतिशरीरं पृथगात्मास्तीत्याशंकायामाह -
सद्विविधः ।
स इति । अयम्भावो यदि जीवो निखिलशरीराधिष्ठायकतयैको भवेत् तर्हि समस्त10 शरीरभाविनां सुखदुःखादीनामेकस्मिन्नेव शरीरेऽनुभूयेत, अन्यथा निखिलशरीराधिष्ठायकत्वमेव तस्य न भवेत्, दृश्यते हि बाल्यकौमासद्यवस्थाभेदेऽपि जीवस्यैकत्वेन बाल्याद्यनुभूतस्य स्थविरावस्थायां स्मरणं, न च तथैकेनानुभूतं सर्वैः स्मर्यते तस्मात्सर्वशरीरेषु भिन्न एवात्मी, एवमात्मन एकत्वे सुखदुःखनिमित्तधर्माधर्मयोः सर्वसाधारण्येन कश्चिदेव सुखी न सर्वे, कश्चिदेव दुःखी न सर्व इति प्रत्यक्षसिद्धः प्रतिनियमो न भवेत्, न चैकस्येवाञ्चलस्य प्रसा 15 रितस्य महतो वाय्वादिनिमित्तात् क्वचिदेव भागे कम्पनमनुभूयते तथा तत्तच्छरीरावच्छेदेनैव सुखादिकं भवति न सर्वत्रेति वाच्यम् । परम्परया तत्रापि सूक्ष्मकम्पस्यानुभवात्, योऽहं सुखी, सोऽहं मैत्रो दुःखी सम्प्रति जात इति प्रत्यभिज्ञापत्तेश्च । न च नात्म्यै तत्तच्छरीरेष्वनुभूतसुखादीनां स्मरणापत्तिर्दोषः, पूर्वपूर्वशरीरानुभूतानामात्मैक्ये ऽप्यस्मरणादिति वाच्यम्, पूर्वपूर्वानुभवजनित संस्कारस्य मरणगर्भवासादितीव्रतर दुःखैरभिभूतत्वात्, 20 जातिस्मरणेन केनापि स्मरणाच्च, नहि चैत्रज्ञानादिकं कदापि कथमपि स्मरति मैत्रस्तस्मादात्मा नैकोsपि तु प्रतिशरीरं भिन्नः परन्तु तेषां सुज्ञानाय प्रथमं तस्य द्वैविध्यं भाव्यमिति भावः । केन प्रकारेण भेद इत्यत्राह -
संसार्यसंसारिभेदात् |
संसारीति । संसारोऽष्टविधं कर्म, तदुपष्टम्भेनैवात्मनस्संसरणाद् बलवन्मोहो नारका25 द्यवस्था वा संसारस्तद्योगात्संसारी, न संसारी- असंसारी निर्धूताशेषकर्मेत्यर्थः । तत्र संसारिणां
१. तथा च प्रयोगः नानारूपा भुवि जीवाः परस्परं भेदभाजः, लक्षणादिभेदात् यथा कुम्भादयः, एकत्वे हि सुखदुःखबन्धमोक्षादयो नोपपद्यन्त इति ॥