________________
पापप्रभेदाः ]
भ्यायप्रकाशसमलङ्कते शकर्मरूपं तेन पुण्यस्य द्विचत्वारिंशद्भेदात्मकत्वमिति भावः ॥ तत्र सातोच्चैर्गोत्रवर्जानि सुरनरतिर्यगायुर्वर्जानि च शेषाणि कर्माणि नामप्रकृतयः, सातोच्चैर्गोत्रे वेदनीयगोत्रकर्मणोरुत्तरप्रकृती, सुरनरतिर्यगायूंषि आयुषः प्रकृतयो बोध्याः ।।
एतर्हि पापस्य प्रभेदानाह
ज्ञानान्तरायदशकदर्शनावरणीयनवकनीचैर्गोत्रासातमिथ्यात्वस्थाव. 5 रदशकनिरयत्रिककषायपञ्चविंशतितिर्यग्द्विकैकद्वित्रिचतुर्जातिकुखगत्युपघाताप्रशस्तवर्णचतुष्काप्रथमसंहननसंस्थानभेदात् द्वयशीतिविधं पापम्॥
ज्ञानान्तरायेति । ज्ञानानि चान्तरायाश्च ज्ञानान्तरायास्तेषां दशकं, ज्ञानानि विशेषविषयबोधात्मकानि मत्यादिरूपतः पञ्चविधानि, कर्मप्रस्तावाज्ज्ञानपदेन तदावरणानां ग्रहणं, तथा च पञ्चविधानि ज्ञानावरणानि, दानलाभभोगोपभोगवीर्याणां प्रत्यूहविधायकानि पञ्चा- 10 न्तरायकर्माणि, तस्माद्दशविधत्वं बोध्यम् । दर्शनावरणीयनवकं, दर्शनं सामान्योपलम्भः, तस्यावरणमावारकं, तच्च द्विविधं दर्शनलब्धेर्दर्शनोपयोगस्य चावरणभेदात् , तत्राद्यं चतुर्विधं चक्षुरचक्षुरवधिकेवलदर्शनावरणभेदात् द्वितीयन्तु पञ्चविधं निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानर्द्धिरूपेण, उभयमपि मिलित्वा दर्शनावरणीयनवकमुच्यते । नीचैर्गोत्रं गर्हितकुलप्रभवप्रयोजकं कर्म, असातं विशिष्टदुःखप्रयोजकं कर्म, तत्त्वार्थश्रद्धानविपर्ययप्रयोजकं कर्म मिथ्यात्वं । स्थावर 15 दशकं स्थावरसूक्ष्मापर्याप्तसाधारणास्थिराशुभदुर्भगदुस्स्वरानादेयायशःकीर्तिप्रयोजककात्मकं, निरयत्रिकं नरकगतिनरकायुर्नरकानुपूर्वीप्रयोजककर्मलक्षणं, कषायपश्चविंशतिः, क्रोधमानमायालोभाः कषायास्ते प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनप्रभेदतष्षोडशविधाः । हास्यरत्यरतिशोकभयजुगुप्सापुरुषवेदस्तीवेदनपुंसकवेदभेदतो नव नोकषाया ईषत्कपायरूपत्वेनोभयसंमेलनतः कषायाणां पञ्चविंशतिर्भवति । तिर्यग्द्विकं तिर्यग्गतितिर्यगानुपूर्वी- 20 प्रयोजककर्मद्वयं, एकद्वित्रिचतुर्जातयः-एकेन्द्रियजातिद्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातिरूपाः, कुखगतिः कुत्सिताम्बरगमनप्रयोजकं कर्म, उपघातं स्वावयवैस्स्वपीडाप्रयोजकं कर्म, अप्रशस्तवर्णचतुष्कं नीलकृष्णावप्रशस्तवर्णी, दुरभिरप्रशस्तगन्धः, तिक्तकटू अप्रशस्तरसौ, कठिनगुरुरूक्षशीता अप्रशस्तस्पर्शाः, एषामुदयप्रयोजककर्मचतुष्टयं, अप्रथमसंहननसंस्थानानि ऋषभनाराचनाराचार्धनाराचकीलिकासेवार्तलक्षणबन्धविशेषप्रयोजककर्माण्य- 25 प्रथमसंहननानि, न्यग्रोधपरिमण्डलसादिकुब्जवामनहुण्डनिदानकर्माण्यप्रथमसंस्थानानि । एषां द्वन्द्वस्ततस्तान्येव भेदस्तस्मादिति समासः। तत्र ज्ञानारणीयपञ्चकं ज्ञानावरणीयस्यान्त