________________
प्रतिलेखना ] न्यायप्रकाशसमलइते
: ५८९ : हिनत्रयेणेयं प्रतिमा यातीति भावः । अथ द्वादशीमाहाष्टमभक्तति, यस्यामुपवासत्रयरूपेण पानाहाररहितेनावस्थानं बहिश्च प्रामादेरीषत्कुब्जो नद्यादिदुस्तटीस्थितो वा एकपुद्गलगतदृष्टिर्निर्निमेषलोचनो गुप्तसर्वेन्द्रियो दिव्यमानुषतिर्यग्विहितघोरोपद्रवसहिष्णुः क्रमौ जिनमुद्रया व्यवस्थाप्य कायोत्सर्गावस्थानावस्थितो भवेत् सैकरात्रिकी प्रतिमा, रात्रेरनन्तरमष्टमकरणाचतूरात्रिंदिवमाना स्यादिति भावः ॥
अथेन्द्रियनिरोधमाहतत्तद्विषयेभ्यस्तत्तदिन्द्रियाणां विरमणरूपाः पञ्चेन्द्रियनिरोधाः ।
तत्तद्विषयेभ्य इति । स्पर्शरसगन्धवर्णशब्दात्मकविषयेभ्य आनुकूल्येन प्रातिकल्येन वा प्राप्तेभ्यस्तत्तदिन्द्रियाणां स्पर्शनरसनघ्राणचक्षुश्श्रोत्ररूपाणां विरमणमासक्तिवैधुर्यमित्यर्थः, इन्द्रियाणां पञ्चविधत्वात्तन्निरोधोऽपि पञ्चविध इत्याशयेनोक्तं पञ्चेति । अनियंत्रितानि हीन्दि- 10 याणि पदे पदे क्लेशमहासागर एव पातयन्तीत्यतस्तन्निरोधोऽवश्यकरणीय इति भावः ।।
प्रतिलेखनामाचष्टे
आगमानुसारेण वस्त्रपात्रादीनां सम्यनिरीक्षणपूर्वकं प्रमार्जन प्रतिलेखना ॥
आगमेति । लिख अक्षरविन्यास इत्यस्य प्रतिपूर्वकस्य भावे ल्युटि प्रतिलेखनेति 15 प्रयोगः, उपसर्गमहिम्ना धात्वर्थभेदेन शास्त्रानुसारेण वस्त्रादीनां निरीक्षणमर्थः सा च सर्वक्रियामूलभूता, अनेकप्रकारापि सा दिनचर्योपयोग्युपकरणविषयाऽत्रोक्ता वस्त्रपात्रादीति पदेन । कालत्रयभाविनी चैषा, रात्रेश्चतुर्थप्रहरे, दिनस्य तृतीयप्रहरान्ते, उद्घाटपौरुष्याश्चेति, तत्र प्रभाते उत्सर्गादिकरणानन्तरं प्रथमं वस्त्रविषया प्रतिलेखना, सापि मुखपोतिकारजोहरणनिषद्यावयचोलपट्टकल्पत्रिकसंस्तारकोत्तरपट्टरूपाणां दशानां भवति, दण्डकमपीति केचित्। 20 अनुद्गत एव सूर्ये विधेयम् , तत्रोत्कटिकासनस्थो मुखपोतिको प्रतिलिख्य प्रकाशदेशस्थो रजोहरणं प्रतिलिखति तत्र प्रभाते आन्तरी सूत्रमयीं निषधामपराहे तु बाह्यामूर्णामयी प्रतिलिखेत् , ततश्चोलपढें ततस्त्रयोदशभिः प्रतिलेखनाभिः स्थापनाचार्य प्रतिलिख्य स्थाने संस्थाप्य । मुखवलिको प्रतिलिखेत् , ततश्चैकेन क्षमाश्रमणेनोपधिसन्देशमाप्य द्वितीयेन तेनोपधि प्रति.. लिखेत् , तत्र पूर्वमौणं कल्पं ततस्सौत्रं कल्पद्वयं ततस्संस्तारकं ततश्चोत्तरपट्टमिति प्रतिलेख- 25 नाक्रमः । उपयुक्तस्सन्नेषां प्रत्युपेक्षणां कुर्यात् , तथा च षण्णामाराधको भवति, अकरणे च दोषाः । ततश्च जाते सूर्योदये शेषमप्युपधि प्रतिलिख्य वसतिं ततो दण्डं प्रमार्जयेत् , प्रतिले