________________
लोकस्वरूपम् ] न्यायप्रकाशसमलङ्कते
: ५८१ : प्रकीर्णानि तेषु भवा वैमानिका इति भावः, तेषां द्वैविध्यमाह कल्पोपपन्ना इति, कल्प आचारः, स चेहेन्द्रसामानिकत्रायस्त्रिंशादिव्यवहाररूपस्तमुपपन्नाः प्राप्ताः कल्पोपपन्नाः सौधर्मेशानादिदेवलोकनिवासिनः, कल्पानतीताः कल्पातीता अवेयकादिवासिनोऽहमिन्द्रा वैमानिकदेवा इत्यर्थः ॥
तेषामवस्थानविशेषविज्ञापनायाह
सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्राराऽऽन. तप्राणताऽऽरणाच्युतभेदेन द्वादशविधानि कल्पोपपन्नदेवानां स्थानान्यु. पर्युपरि भवन्ति ।।
सौधर्मेति । सौधर्मदेवलोकस्य मध्यभागवर्ति शक्रनिवासभूतं सौधर्मावतंसकं नाम विमानं तदुपलक्षितत्वात्सौधर्मः, कल्पः-सन्निवेश:-विमानप्रस्तारः, सकलविमानप्रधाने- 10 शानावतंसकोपलक्षितस्थानविशेष ईशानः, सनत्कुमारनामप्रधानविमानविशेषस्सनत्कुमारः, एवमेव माहेन्द्रादयोऽपि तत्तद्देवाधिष्ठितस्थानविशेषा भाव्याः। एते च द्वादशविधाः कल्पोपपन्नदेवानां निवासयोगयाः । उपर्युपरीति, सामीप्ये द्वित्वं न चात्र न सामीप्यमस्ति, असंख्येययोजनोत्तरत्वात्तेषामिति वाच्यम् , तुल्यजातीयेनाव्यवधानस्यैव सामीप्येन विवक्षितत्वात् न च तेषां तुल्यजातीयं व्यवधायकमिष्टमिति भावः, स्थानान्युपर्युपरि भव- 15 न्तीत्यनेन देवानां विमानानाञ्चोपर्युपरिभवनं प्रतिषिद्धं तस्यानिष्टत्वात् श्रेणिप्रकीर्णकानां विमानानामपि तिर्यगवस्थानाच्च, अपि तु कल्पा एबोपर्युपरि भवन्ति, ते च कल्पास्सौधमादयो नैकस्मिन् प्रदेशे नापि तिर्यङ् न वाऽधस्तात् वर्तन्ते किन्तु यथानिर्देशमुपयुंपरीति भावः । एवञ्च तिर्यग्लोकादूर्ध्वमसंख्येययोजनोपरि मेरूपलक्षितदक्षिणभागार्धव्यवस्थित. स्सौधर्मः कल्पः, मेरूपलक्षितोत्तरदिग्भागव्यवस्थित उपरितनकोट्या ईषत्समुच्छ्रिततरः ऐशान: 20 कल्पः, सौधर्मस्योपरि बहुयोजनोवं समश्रेणिव्यवस्थितः सनत्कुमारः, ऐशानस्योपरि ईषत्समुच्छ्रितोपरितनकोटिर्माहेन्द्रः, सनत्कुमारमाहेन्द्रयोरुपरि बहुयोजनात्परतो मध्ये ब्रह्म
. १. आवलिकाप्रविष्टानि चतुसृषु दिक्षु श्रेण्या व्यवस्थितानि, आवलिकाबाह्यानि तु प्राङ्गणप्रदेशे कुसुमप्रकर इव इतस्ततो विप्रकीर्णानि, तानि च मध्यवर्तिविमानेन्द्रस्य दक्षिणतोऽपरतः उत्तरतश्च विद्यन्ते नतु पूर्वस्यां दिशि, नानासंस्थानसंस्थितानि च, आवलिकाप्रविष्टानि च प्रतिप्रस्तटं विमानेन्द्रकस्य पूर्वदक्षिणापरोत्तररूपासु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि, विमानेन्द्रकश्च सर्वोऽपि वृत्तः, ततः पार्श्ववर्तीनि चतसृष्वपि दिक्षु यस्राणि तेषां पृष्ठतः चतसृष्वपि दिक्षु चतुरस्राणि तेषां पृष्टतो वृत्तानि, ततोऽपि व्यस्राणि पुनश्चतुरस्राणीत्येवं आवलिकापर्यन्तं भाव्यम् । एवं प्रैवेयकविमानं यावद्बोध्यम् ॥