________________
: ५७२ :
तस्त्वन्याय विभाकरे
[ द्वितीयकिरणे
रूपितं हि ऊर्ध्वत्वमधस्त्वश्च तदेव मध्यं भवतीति भावः । जम्बूद्वीपादीति, द्विर्गता आपोSत्रेति द्वीपाः, द्वाभ्यां प्रकाराभ्यां स्थानदातृत्वाहाराद्युपष्टम्भहेतुलक्षणाभ्यां प्राणिनः पान्तीति वा द्वीपाः । जम्ब्वा सुदर्शनापरनाम्न्याऽनादृतदेवा वासभूतयोपलक्षितो द्वीपस्तत्प्रधानो वा जम्बूद्वीपो निखिलद्वीपसमुद्राणामभ्यन्तरीभूतः, अथवा प्रतिविशिष्टस्य जम्बूवृक्षस्या5 साधारणाधिकरणत्वादयं जम्बूद्वीप उच्यते, न च केनायं संकेतितो जम्बूवृक्षसत्वाज्जम्बूद्वीप इतीति वाच्यम्, संज्ञासंज्ञिसम्बन्धस्यानादित्वात् न च तथापि संज्ञाकर्त्तुरावश्यकत्वमेकान्तानादित्वाभावादिति वाच्यम्, पुरुषप्रवाहस्याप्यनादितया प्रवाहानादित्वोपपतेर्जम्बूत रोश्च सर्वदा सवाल्लोकसन्निवेशस्य च न कदाचिदनीदृशत्वात् तस्मादनादिप्रवाहरूपत्वेन शब्दार्थसम्बन्धस्य पुरुषव्यवस्थाप्यत्वसम्भवात् । अनिष्टविनिवेशव्युदासाय पूर्वपूर्वापेक्षयेति, 10 जम्बूद्वीपादयो लवणसमुद्रादयश्च येन क्रमेणाग्रे वक्ष्यन्ते तेनैव क्रमेण तत्तदपेक्षयेत्यर्थः, चतुरस्रादिनिवृत्त्यर्थमुक्तं वलयाकृतय इति, वृत्तसंस्थानसंस्थितत्वात्सर्वे एकस्वरूपा इत्यर्थः, विस्तारमधिकृत्याह - द्विगुणविस्तारा इति, तथाच जम्बूद्वीप एकं लक्षं लवणसमुद्रो द्वे लक्ष धातकीखण्डश्चत्वारि लक्षाणीत्येवं विस्तारमधिकृत्य नानारूपा इत्यर्थः । स्वयम्भूरमणसमुद्रान्ता इति, स्वयं भवन्तीति स्वयम्भुवो देवास्ते यत्रागत्य रमन्ते स स्वयम्भूरमणस्तादृश15 स्समुद्रः स्वयम्भूरमणसमुद्रः, अर्धरज्जुप्रमाणः प्रान्तसमुद्रः अस्य महर्द्धिकौ देवौ स्वयम्भूवरस्वयंभूमहावरौ, स्वयम्भूरमणद्वीपस्य तु स्वयंभूभद्रस्वयंभू रमण महाभद्रौ वेदितव्यौ । तथा च जम्बूद्वीपादयो द्वीपास्स्वयंभूरमणद्वीपपर्यवसाना लवणसमुद्रादयस्समुद्रास्स्वयंभूरमणसमुद्रपर्यवसानास्तिर्यग् लोकेऽसंख्येया द्वीपसमुद्रा भवन्तीति भावः ||
ननु जम्बूद्वीपस्यापि द्वीपत्वाद्वलयाकृतित्वप्रसङ्ग इत्याह
20 मध्ये लक्षयोजन परिमाणस्य जम्बूद्वीपस्य नाभिरिव भूतलं योजनसहस्रेणावगाहमानश्चत्वारिंशद्योजनचूलायुतो नवाधिकनवतिसहस्रयोजनसमुच्छ्रायोऽधो दशयोजन सहस्रं विस्तृत ऊर्ध्वं च योजन सहस्रविस्तारो
१ जम्बूद्वीपः निखिलसमुद्राणामभ्यन्तरवत्र्त्ती शेषद्वीपसमुद्रेभ्यः क्षुल्लकः तैलपूपसंस्थानसंस्थितः अद्वितीयवज्ररत्नात्मकजगत्या जम्बूद्वीपप्राकाररूपया द्वीपसमुद्रसीमाकारिण्या महानगरप्राकारकल्पया सर्वदिक्षु सम्परिक्षिप्तः चतुर्द्वारोपशोभितः भरतैरव तहैमवत हैरण्यवत हरि रम्यकमहाविदेहवर्षोपशोभिताश्च । तथाऽयं पृथिवीपरिणामोऽपि, पर्वतादिमत्वात् अपरिणामोऽपि, नदीहूदादिमत्त्वात्, जीवपरिणामोऽपि मुखवनादिषु वनस्पत्यादिमत्त्वात् । पुलपरिणामोऽपि मूर्त्तत्वस्य प्रत्यक्षसिद्धत्वात् । अत्र पृथग्जीव परिणामत्वाभिधानं परमते पृथिवीजलयोः जीवत्वाव्यवहारात् ॥