SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ निक्षेपाः ] न्यायप्रकाशसमलङ्कते : ५०९:. बाच्यम् , सम्बन्धानुपपत्तेः, कि पूर्व घटः पश्चादभावो वैपरीत्यं वा, उत समकालं वा घटाभावी, नाद्यौ द्विनिष्ठसम्बन्धस्य भिन्नकालयोरसम्भवात् । अन्त्ये घटाभावयोर्यदि क्षणमात्रमपि सहावस्थितिरभ्युपगम्यते तासंसारमसौ स्याद्विशेषाभावात् , तथा च सति घटतादवस्थ्यप्रसङ्गः । न च घटोपमर्दैनाभावो जायतेऽतो घटादिनिवृत्तिरिति वाच्यम् , उपमईस्य घटादिरूपत्वे तस्य स्वहेतुत एवोत्पत्तेः, कपालादिरूपत्वे तद्भावेऽपि घटतादवस्थ्यप्रसङ्गात् । 5 तुच्छाभावरूपत्वे च घटाद्यभावेन घटाद्यभावो जायत इत्युक्तं स्यात्तथा च सत्यात्मनैवात्मभवनानुपपत्तिस्स्यात् । तस्मान्मुद्गरादिसहकारिकारणवैसादृश्याद्विसदृशः कपालादिक्षण उत्पद्यते घटादिस्तु क्षणिकत्वेन निर्हेतुकरस्वरसत एव निवर्तत इत्येतावन्मात्रमेव शोभनमतो हेतुव्यापारनिरपेक्षा एव समुत्पन्ना भावाः क्षणिकत्वेन स्वरसत एव विनश्यन्ति न हेतुव्यापारादिति स्थितम् । तस्माजन्मविनाशयोर्न किश्चित्केनचिदपेक्ष्यते, अपेक्षणीयाभावाश्च न 10 किश्चित्कस्यचित्कारणं तथा च सति न किञ्चिद्रव्यं, किन्तु पूर्वापरीभूतापरापरक्षणरूपाः पर्याया एव सन्तीति । एते हि स्वतन्त्रा नामादिनया मिथ्यादृष्टयोऽसम्पूर्णार्थग्राहित्वाद्गजगात्रभिन्नदेशसंस्पर्शनेन बहुविधविवादमुखरजात्यन्धवृन्दवत् । अनुभवप्रत्यक्षसिद्धन्तु जैनाभ्युपगमरूपं निःशेषसमूहाभ्युपगमनिर्घत्तमनवद्यं, नामादिनयपरस्परोद्भाविताविद्यमाननिःशेषदोषत्वेन सम्पूर्णार्थग्राहित्वात् , चक्षुष्मतां समन्तात्समस्तहस्तिदर्शनजोल्लापवत् । तथा च यत्र शब्दो- 15 ल्लापबुद्धिपरिणामसद्भावस्तत्सर्वं नामादिचतुष्पर्यायम् , चतुष्पर्यायत्वाभावे शशशृङ्गादौ शब्दादिपरिणामाभावदर्शनात्, तस्माच्छब्दादिपरिणामसद्भावे सर्वत्र चतुष्पर्यायत्वं निश्चितमेवा. तोऽन्यसंवलितनामादिचतुष्टयात्मन्येव वस्तुनि घटादिशब्दस्य तदभिधायकत्वेन पृथुबुनोदराद्याकारस्य नामादिचतुष्टयात्मकतया बुद्धस्तदाकारग्रहणरूपतया परिणतिस्तदात्मन्येव वस्तुनि समुपलब्धा । न चेदं दर्शनं भ्रान्तं बाधकाभावात् । नाप्यदृष्टाशंकयाऽनिष्टकल्प- 20 नाऽतिप्रसङ्गात् । नहि दिनकरास्तमयोदयोपलब्धरात्रिंदिवादिवस्तूनां बाधकसम्भावनयाऽन्यथात्वकल्पना सङ्गतिमङ्गति । तस्मादेकत्वपरिणत्यापन्ननामादिभेदेष्वेव शब्दादिपरिणतिदर्शनात्सर्वं चतुष्पर्यायं वस्त्विति स्थितम् । भिन्नस्वरूपतया च नामादयः स्वाश्रयभूतवस्तुनः कथश्चिद्भेदकारिणः, एकस्मिन्नपि वस्तुनि चतुणी प्रतीयमानत्वात्कथञ्चिदभेदकारिणश्च । यथाहि केनचिदिन्द्र इत्युञ्चरितेऽन्यः प्राह किमनेन नामेन्द्रो र विषक्षितस्थापनेन्द्रो द्रव्येन्द्रो भावेन्द्रो वा, नामेन्द्रोऽपि द्रव्यतः किं गोपालदारको हालिकदारकः क्षत्रियदारको वैश्यदारको ब्राह्मणदारकश्शूद्रदारको वा, क्षेत्रतोऽपि नामेन्द्रः किं भारत ऐरावतो महाविदेहजो वा, कालतोऽपि किमतीतकालसम्भवी बार्त्तमानिको भविष्यन् वा, अतीतकालसम्भव्यपि किमितोऽनन्तसमयभावी, असंख्यात.
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy