________________
:५०२: तत्त्वन्यायविमाकरे
- [ नवमकिरणे यते । यदा तु प्रमाणव्यापारमविकलं परामृश्य प्रतिपादयितुमभिप्रयन्ति तदाऽङ्गीकृतगुणप्रधानभावा अशेषधर्मसूचककथञ्चित्पर्यायस्याच्छब्दभूषितया सावधारणया वाचा दर्शयन्ति स्यादस्त्येव जीव इत्यादिकया । अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षा
दुपन्यस्तजीवशब्द क्रियाभ्यां प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसम्भवस्य वस्तु5 नस्सन्दर्शकत्वात्सकलादेश उच्यते । तस्मानयप्रमाणाभिज्ञः स्याद्वादी सकलादेशविकलादेशावधिकृत्य यद्यद् ब्रूते तत्तत्सत्यं दुर्नयमतावलम्बिनो यद्यदाचक्षते तत्तदलीकमिति ॥
तदेवं नयस्य लक्षणान्यभिधायाधुना तस्य फलं स्फुटयति
नयस्येदृशस्य वस्त्वेकदेशस्याज्ञाननिवृत्तिरनन्तरफलम् । परम्परफलन्तु वस्त्वेकदेशविषयकहानोपादानोपेक्षाबुद्धयः । उभयविधमपि फलं 10 नयात्कथञ्चिद्भिन्नाभिन्नं विज्ञेयम् । इति नयनिरूपणम् ॥
नयस्येदृशस्येति ! प्रोक्तस्वरूपनयस्येत्यर्थः । नयस्य प्रमाणैकदेशत्वाद्वस्त्वंशप्राहित्वाच्च वस्त्वंशस्य यदज्ञानं तन्निवृत्तिरव्यवहितं फलमिति भावः। पारम्पर्य फलमादर्शयति परम्परेति, यथा प्रमाणस्य सर्ववस्तुविषयकहानोपादानोपेक्षाबुद्धयः परम्परं फलं तथा नयस्यापि वस्त्वं.
शविषयकहानोपादानोपेक्षा बुद्धयः परम्परफलत्वेनावधारणीया इति भावः । तदिदं नयस्य 15 द्विविधमपि फलं ततः कथञ्चिद्भिन्नमभिन्नश्च नयफलत्वान्यथानुपपत्तेरित्याहोभयविधमपि
फलमिति, साक्षात्परम्परं फलश्चेत्यर्थः । नयविचारविशेषफलन्तु यो निक्षेपनयप्रमाणतोऽर्थ सूक्ष्मेक्षिकया न परिभावयति तस्याविचारितरमणीयतयाऽयुक्तं युक्तं युक्तं वाऽयुक्तं प्रतिभात्यतस्तदपनोदनाय तद्विचारः कर्त्तव्यः, तथा सर्वथाऽनित्यत्वादिप्रतिपादकबौद्धादिपर
समयस्य ऋजुसूत्रनयविधिज्ञेन तत्प्रतिपक्षभूतनित्यत्वादिप्रतिपादकद्रव्यास्तिकनयतो निरा20 करणाय, स्वसमये वाऽज्ञानद्वेषादिदोषकलुषितेन परेण दोषबुद्ध्या किमपि जीवादिकं वस्तु
परिगृहीतं तदपि नयविधिज्ञेन नयोक्तिभिर्गुणरूपतया स्थापनाय नयविचारः कर्त्तव्यः, तथा दृष्टिवादे सर्वार्थप्ररूपणा सूत्रार्थवर्णना च सर्वनयैः क्रियत इति ॥
पदार्थानां प्रतिविशिष्टज्ञानोत्पत्त्यर्थं शास्त्रे निक्षेपा नामादिनयरूपा उक्तास्तान् सप्तनयेष्वन्तर्भावयितुं संक्षेपेण ते निरूप्यन्ते । निक्षिप्यते शास्त्रमध्ययनोद्देशादिकश्च नामस्था25 पनाद्रव्यादिभेदैर्व्यवस्थाप्यतेऽनेनास्मिन्नस्माद्वेति निक्षेपः, प्रकरणादिवशेनाप्रतिपत्त्यादि.
व्यवच्छेदकयथास्थानविनियोगाय शब्दार्थरचनाविशेषो निक्षेपः । मङ्गलादिपदार्थनिक्षेपानाममङ्गलादिविनियोगोपपत्तेश्च निक्षेपाणां फलवत्त्वम् , अप्रस्तुतार्थापाकरणात्प्रस्तुतार्थ