________________
: ४९८ :
तस्व न्यायविभाकरे
[ मयमकिरणे
L
सद्भावासद्भावादिभिरर्पितस्य स्याद्भटः स्यादघटः, स्यादवक्तव्यः स्यात् संश्वा संश्वोभयं स्यात्सन्न वक्तव्यः, स्यादसन्नवक्तव्यः स्यात्सन्नसन्नवक्तव्य इति स्याद्वाददृष्टभेदं घटादिकमर्थं यथाविवक्षितमेकेन केनापि भङ्गकेन विशेषिततरं प्रतिपद्यते नयत्वादिति विशेषः । प्रतिपर्यायशब्दमर्थभेदमभीप्सतस्समभिरूढाच्छन्दो बहुविषय इत्याह कालादीति आदिना कारकलिङ्गादीनां 5 परिग्रहः । प्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवम्भूतात्समभिरूढस्तदन्यथार्थस्थापकत्वाहुविषय इत्याह व्युत्पत्तिभेदेनेति, एवम्भूतविषयं दर्शयन्निगमयति क्रियाभेदेनेति ॥
एवं नयस्वरूपे निरूपितेऽर्थतस्स्फुटमपि सुलभतया दुर्नयस्वरूपं बुबोधयिषया नयाभासान् क्रमेणाह—
धर्मद्वयधर्मिद्वय धर्मधर्मिद्वयानां सर्वथा पार्थक्याभिप्रायो नैगमा10 भासः, यथा वह्निपर्वतवृत्तित्वयोरनित्यज्ञानयो रूपनैल्ययोरात्मवृत्तिसस्वचैतन्ययोः काठिन्यवद्रव्यपृथिव्यो रूपवद्रव्यमूर्त्तयोः पर्यायवद्रव्यवस्त्वोर्ज्ञानात्मनोर्नित्यसुखमुक्तयोः क्षणिक सुखविषयासक्तजीवयोश्च सर्वथा भेदाभिप्रायः । वैशेषिकनैयायिक यो दर्शनमेतदाभास एव ॥
1
धर्मद्वयेति । पूर्वोक्तैतद्दृष्टान्तेष्वेवैकान्तिक पार्थक्याभिसन्धिश्चेन्नैगमाभासस्यादित्याश15 येन तमेव दर्शयति यथेति, वह्निपर्वतवृत्तित्वयोरिति सर्वथा भेदाभिप्राय इत्यप्रेतनेन सम्बयते, एवमग्रेऽपि । पर्वते पर्वतीयवह्निरित्यत्र तयोस्सर्वथा भेदाभिप्रायश्चेत्तदा धर्मद्वयविषयको नैगमाभास इति भावः । अनित्यज्ञानमात्मन इत्यत्रानित्यज्ञानयोस्सर्वथा पार्थक्याभिसन्धौ धर्मद्वयविषयक नैगमाभास इत्याहा नित्येति । घटे नीलं रूपमित्यादौ नैल्यरूपयोरेकान्तभेदाभिप्राये धर्मद्वयविषयक नैगमाभास इत्याह रूपेति । सचैतन्यमात्मनीत्यादौ प्रधानोपसर्जन20 भावेन चैतन्याख्यसव्वाख्यव्यञ्जनपर्याययोर्धर्मद्वययोर्विवक्षणे नैगमत्वेऽपि तयोरेकान्तभेदे - नोक्तिर्नयाभासरूपा स्यादित्याह - आत्मवृत्तीति । काठिन्यवद्द्रव्यं पृथिवीत्यादौ धर्मिद्वययोः काठिन्यवद्रव्यपृथिव्योस्सर्वथा पार्थक्येन कथने नैगमाभास इत्याह काठिन्येति । रूपवद्द्रव्यं मूर्त्तमित्यादौ धर्मिद्वययो रूपद्रव्यमूर्त्तयोस्सर्वथा भेदाभिप्राये तथेत्याह रूपवदिति । पर्यायवद्द्रव्यमित्यत्रापि तथेत्याह पर्यायवदिति । ज्ञानवानात्मा, नित्यसुखी मुक्तः, क्षणिकसुखी विषयासक्तजीव इत्यादि धर्मधयुभयविषयके सर्वथा भेदाभिप्राये नैगमाभासत्वं स्यादित्याह ज्ञानेति । कस्य दर्शनमेतन्नयाभासरूपमित्यत्राह वैशेषिकेति ॥
25
१. ऊर्ध्वग्रीव कपालकुक्षिबुध्न । दिभिः स्वपर्यायै सद्भावेनार्पितश्चेत् स्याद्भटः, पटादिगतैः परपर्यायैरसद्भावेनार्पितः स्यादघटो भवति । स्वपरोभयपर्यायैः सदसद्भावाभ्यामर्पितौ युगपद्वक्तुमिष्टश्वेदवक्तव्यो भवतीत्येवं बोध्यः ॥