________________
.. · तत्वन्यायविभाकरे
[ नवमकिरण .. अत्र यद्यपि वस्तुन्यनन्तधर्मात्मके एकांशविषयकप्रतिपत्रभिप्रायविशेषस्य नयरूपतया वस्त्वंशानामनन्तत्वेनाभिप्रायरूपनया अप्यनन्तप्रकारा एव तथापि चिरन्तनाचार्यैस्सर्वसनाहिसप्ताभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिता इति तथैव विभजते
स च नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढवम्भूतभेदात्सप्त5 विधः॥ ...
स चेति । एते सर्वाभिप्रायसङ्ग्राहकाः कथमिति चेदुच्यते, अभिप्रायास्तावदर्थद्वारेणं शब्दद्वारेण वा प्रवर्त्तन्ते, गत्यन्तराभावात् , अर्थश्च सामान्यरूपो विशेषरूपो वा, शब्दोऽपि रूढयात्मको यौगिको वा, व्युत्पत्तिरपि सामान्यनिमित्तप्रयुक्ता वा स्यात्तत्कालभाविनिमित्त.
प्रयुक्ता वा स्यात् तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेऽप्याद्ये नयचतुष्टयेऽन्त10 भवन्ति, तत्रापि परस्परं विशकलितौ सामान्यविशेषाविच्छन्ति ये तत्समूहसम्पाद्यो नैगमः। ये
पुनः केवलं सामान्यं वाञ्छन्ति तत्समूहजन्यस्सङ्ग्रहः, ये पुनरनपेक्षितशास्त्रीयसामा• न्यविशेषं लोकव्यवहारमवतरन्तं घटादिकं पदार्थमभिप्रयन्ति तन्निचयजन्यो व्यवहारः । ये सौगतास्तु क्षणक्षयिणः परमाणुलक्षणा विशेषास्सत्या इति मन्यन्ते तत्संघातघटित ऋजु
सूत्रः । तथा ये मीमांसका रूढितश्शब्दानां प्रवृत्तिं वाञ्छन्ति नान्यथा तद्वारा जन्यः 15 शब्दः । ये तु व्युत्पत्तितो ध्वनीनां प्रवृत्ति वाञ्छन्ति तन्निवहसाध्यस्समभिरूढः । ये च
वर्तमानकालभाविव्युत्पत्तिनिमित्तमधिकृत्य शब्दाः प्रवर्तन्ते नान्यथेति मन्यन्ते तत्संघटित एवम्भूतः । तदेवं न स कश्चन विकल्पोऽस्ति वस्तुगोचरो योऽत्र नयसप्तके नान्तर्यातीति सर्वाभिप्रायसङ्ग्राहका एत इति ध्येयम् ।।
उक्ताभिप्रायविशेषान् द्विधा सङ्ग्रह्य दर्शयति20 आद्यास्त्रयो द्रव्यार्थिकाः, परे चत्वारः पर्यायार्थिकाः, द्रव्यमात्रविष
यकत्वात् पर्यायमात्रविषयकत्वाच । गुणानां पर्यायेऽन्तर्भावः, ऊर्ध्वता. सामान्यस्य द्रव्येऽन्तर्भावः, तिर्यक्सामान्यस्य तु व्यञ्जनपर्यायरूपस्य पर्यायेऽन्तभावः । स्थूलाःकालान्तरस्थायिनः शब्दानां सङ्केतविषया व्यअनपर्याया इति प्रावचनिकप्रसिद्धिः । अतो नाधिकनयशङ्का ॥ ..
आद्या इति । नैगमसङ्ग्रहव्यवहारा इत्यर्थः । द्रव्यार्थिकनया इति । येष्वभिप्रायेषु द्रव्यमेवार्थो विषयतयाऽस्ति न पर्यायास्ते द्रव्यार्थिकनयाः द्रव्यार्थिकमते हि द्रव्यमेव परमार्थतया सत्, अतो द्रव्याद्भिन्नं विकल्पसिद्धं गुणपर्यायरूपं तत्त्वं नेष्टं, संवृतिसतोऽपि तस्य परमार्थतोऽसत्त्वात् यथा शुक्तौ रजतभ्रान्तौ सत्यां बाधावतारानन्तरं रजसाभाव