________________
:४७४ : तत्त्वन्यायविभाकरे
[ अष्टमकिरणे महिम्ना स्थाणावाकृष्यत इत्यनेकार्थे समाकृष्यमाणस्य प्रसिपत्तुरनवस्थितरूपतया दोलाय. मानः स्थाणुर्वायं पुरुषो वेति प्रत्ययः प्रादुर्भवतीति भावः । ननु कोटयोर्विरोधज्ञानमपि संशयकारणमस्ति तत्कुतो नोक्तमिति चेत्सत्यं, संशये तदधिकरणावृत्तित्वरूपविरोधस्य प्रकारत्वे तस्य तदभावव्याप्तिपर्यवसायित्वेन तदभावव्याप्यवत्तानिश्चयरूपसंशय5 प्रतिबन्धकसत्त्वात्तदभावस्य च कार्यसहभावेन हेतुत्वात्संशयमात्रस्य दुर्लभत्वापत्तेः, किन्तु संशये तद्विरोधस्संसर्गतया भासते तस्य च पूर्वमुपस्थिति पेक्षितेति विरोधज्ञानं न संशय हेतुत्वेनोक्तम् । एवं गृहे स्थितस्य वाप्यामापस्सन्तीति ज्ञानं साधकबाधकप्रमाणाभावापेक्षया संशयात्मकं, तस्यानेकांशानुल्लेखित्वेऽपि न सन्तीत्यंशोऽन्तर्निंगीर्णः स्फुरत्येवेति
बोध्यम् । ननु किमयं संशयः प्रत्यक्ष एव भवति परोक्षेऽपि वेत्यत्राहायमिति, स्थाणुर्वा 10 पुरुषो वेत्याकारकस्संशय इत्यर्थः, प्रत्यक्षधर्मिक इति, सांव्यवहारिकप्रत्यक्षधर्मिक इत्यर्थः ।
परोक्षधर्मिविषयकमाह परोक्षेति, अत्र गोत्वगवयत्वविषयकसाधकबाधकप्रमाणाभावाद्विशेषदर्शनेन शृङ्गेणानुमिते धर्मिणि परोक्षे संशय इति परोक्षधर्मिविषयक इति भावः ॥
अथ क्रमायातमनध्यवसायं निरूपयति
विशिष्टविशेषास्पर्शिज्ञानमनध्यवसायः। यथा गच्छता मार्गे किमपि 15 मया स्पृष्टमिति ज्ञानम् । अयमनध्यवसायः प्रत्यक्षविषयः ॥
विशिष्टेति । विशिष्टरूपेण-स्पष्टतया विशेष यन्न स्पृशति तादृशं ज्ञानमित्यर्थः, दूरान्धकारादिवशादसाधारणधर्मावमर्शरहितः प्रत्ययोऽनिश्चयरूपत्वादनध्यवसाय इति भावः । उदाहरति यथेप्ति, अन्यत्रासक्तचित्तत्वात् पथि व्रजता मया किमपि स्पृष्टं परं किं वस्त्विति
न ज्ञातमिति यो बोधस्स वस्तुविशेषाध्यवसायाभावात्किमपि स्पृष्टमित्यनिर्णयात्मकमनध्य20 वसायज्ञानमिति भावः । अत्रापीतिशब्देनेदशदिशा प्रत्यक्षयोग्यविषया अनध्यवसाया विज्ञेया
इति सूचितं, तदेवाहायमिति, ईदृग्जातीय इत्यर्थः ॥
. १. यथा पर्वतो वह्निमान्नवेत्यत्र वह्निः वयभावश्च प्रकारः, तत्र तदधिकरणावृत्तित्वरूपो विरोधोऽपि भासेत यदि तदा वह्नौ वह्नयभावाधिकरणावृत्तित्वस्य भाने तस्य वह्निव्याप्तिरूपत्वेन पर्वते वहिव्याप्यवत्ताज्ञानेन वह्नयभाववत्त ज्ञानं, वह्वयधिकरणावृत्तित्वस्य वह्नयभावे भाने च तस्य वह्नयभावाभावाधिकरणावृत्तित्वलक्षणवह्नयभावव्याप्तिरूपत्वेन पर्वते वयभावव्याप्यवत्ताज्ञानात् वह्निमत्ताज्ञानं न स्यात् तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धकस्य सत्त्वात् , न च संशयोत्पत्तिकाले प्रतिबन्धकसत्त्वेऽपि प्रतिबन्धकाभावरूपकारणस्य कार्याव्यवहितपूर्वक्षणे सत्त्वेन न संशयोत्पत्ती बाधकः कश्चिदिति वाच्यम् , प्रतिबन्धकाभावस्य कार्यकालवृत्तित्वेन हेतुत्वादित्याशयेनाह संशय इति ॥ २. तत्प्रकारकज्ञान एव तज्ज्ञानस्य हेतुत्वेन विरोधस्य संसर्गतया भाने न तज्ज्ञानापेक्षेति भावः ॥ ३. आदिनाऽन्यासक्तचित्तत्वादीनां ग्रहणम् ॥