________________
: ४२४ :
तस्वन्याय विभाकरे
[ षष्ठकिरणे
कत्वं गुणानां, अन्यथा नानागुणजन्योपकारस्यैकत्वमविरुद्धं स्यादिति भावः । देशेनाभेदवृत्त्यनुपपत्तिमाह नापि गुणिदेशेनेति, निदानमाह तस्यापीति, गुणिदेशस्यापीत्यर्थः । अन्यथा भिन्नपदार्थवृत्तिगुणानां गुणिदेशानामध्यभेदप्रसङ्गात्, गुणिदेशत्व साम्यात्, घटात्मकगुणिदेशानामेवाभेद इत्यत्र विनिगमनाविरहादिति भावः । संसर्गेणाभेदवृत्त्यसम्भवमाह 5 नापि संसर्गेणेति, हेतुमाह संसर्गीति, तदभेदे संसर्गिभेदविरोधादिति भावः । शब्देना भेदासम्भवमाह नापि शब्देनेति हेतुमाहार्थभेदेनेति वाच्यभेदेनेत्यर्थः, अन्यथा सर्वेषां गुणानामेकशब्दवाच्यत्वे तत एव सर्वार्थवाच्यतापत्त्या शब्दान्तरवैफल्यापत्तिप्रसङ्गस्यादिति भावः, इतिशब्दः कालाद्यष्टाववलम्ब्य भेदासम्भवनिरूपणसमाप्तिद्योतकः । तथा चेत्थं प्राधान्यतः पर्यायार्थिकनयचक्रवर्त्तिसाम्राज्येनाभेदवृत्त्यसम्भवादभेदमध्यारोप्या स्तित्व धर्मा10 भिन्नत्वमनेकाशेषधर्मेषु सम्पादनीयं ततञ्च तादृशधर्मात्मक वस्तुबोधजनकवाक्यमपि सकलादेशः परिपूर्णार्थ प्रकाशकत्वादित्याशयेनाह तस्मादिति, यस्मात्कालादिना भिन्नानां धर्माणामभेदवृत्तिर्न सम्भवति तस्मादित्यर्थः । इति पदं सकलादेशसमाप्तिद्योतकम् ॥
तदित्थं प्रकाशिताभ्यामभेदवृत्त्यभेदोपचार(भ्यामेकेनास्तिनास्त्यादिशब्देनैकधर्मप्रतिपादनमुखेन तद्भिन्नयावदनन्तधर्मात्मकवस्तुबोधस्सम्भवतीति निरूप्य सम्प्रति प्रत्येकं वाक्या15 नामर्थं निरूपयितुमुपक्रमते -
घटस्यादस्त्येवेति प्रथमं वाक्यमितरधर्माप्रतिषेधमुखेन विधिवि षयकं बोधं जनयति । अत्र स्याच्छन्दोऽभेदप्राधान्येनाभेदोपचारेण वा सामान्यतोऽनन्तधर्मवन्तमाह, अस्तिशब्दोऽस्तित्वधर्मवन्तमाह, एवकारोsयोगव्यवच्छेदमाह, तथा चाभेदप्राधान्येनाभेदोपचारेण वा सामा20 न्यतोऽनन्तधर्मात्मको घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगिस्वद्रव्याद्यवच्छिन्नास्तित्ववानिति बोधः ॥
25
घट इति । इतरधर्मप्रतिषेधमुखेनेति, तथाबोधकशब्दाभावादिति भावः । विधिवि - षयकमिति, अस्तित्वस्य विधिरूपत्वादिति भावः, मुख्यतयेति शेष:, तेन नास्तित्वस्यात्र बोघेऽपि न क्षतिः, न च नास्तित्वस्यात्र कथं बोध इति वाच्यम्, अस्तित्वस्य प्रतिषेध्येन नास्तित्वेनाविनाभावित्वात्, प्रयोगश्चास्तित्वं नास्तित्वेनैकधर्मिण्यविनाभावि, अस्ति
१. एकस्मिन् काले तयोर विनाभावित्वेन सिद्धत्वात्सिद्धसाधनवारणाथैकधर्मिणीति, विशेषणत्वमात्रोत्तौ नीलोत्पलमित्यादौ विशेषणे नीले चेतनो जीव इत्यादौ च जीवविशेषणे चैतन्ये लोकदृष्ट्या नीलाविनाभावित्वस्याचैतन्याविनाभावित्वस्य चासत्त्वात् पररूपेणाविनाभावित्वस्य साध्यसमत्वाद्वाऽस्तित्वनास्तित्वोभयघद्वितधर्मीति पदम् । तत्र सामान्यमुखीं व्याप्तिं दर्शयति यदिति । एवञ्च साधर्म्यस्य वैधर्म्येणाविनाभावित्वेनैतन्नये केवलान्वयी नास्त्येव ||