________________
:४२२: तत्त्वन्यायविभाकरे
[ षष्ठकिरणे अखण्डवस्तुविषयत्वेन त्रिष्वाद्यभङ्गेर्खा सकलादेशत्वं चतुर्षु चोपरितनेष्वेकदेशविषयत्वेन विकलादेशत्वमित्यूचुः॥ _ नन्वभिन्नताप्रयोजककालाद्यष्टासु मध्ये सम्बन्धसंसर्गौ द्विधा कथमुपात्तौ तयोर्भेदादर्शनादित्यत्राह5. सम्बन्धे कथश्चित्तादात्म्यलक्षणेऽभेदः प्रधानं भेदो गौणः, संसर्गे
त्वभेदो गौणो भेदः प्रधानम् । तथा च भेदविशिष्टाभेदस्सम्बन्धः, .. अभेदविशिष्टभेदस्संसर्ग इति विवेकः । अयश्च पर्यायार्थिकनयस्य गुणभावे द्रव्याथिकनयस्य प्रधान भावे युज्यते ॥
सम्बन्ध इति । कथञ्चित्तादात्म्यं हि सम्बन्धः, स च भेदाभेदघटितमूर्तिकः, तत्र 10 यदाऽभेदस्य प्राधान्यं भेदस्य च गौणत्वं क्रियते तदा स सम्बन्धशब्दव्यवहारभाग्भवति,
यदा तु भेदस्य प्रधानतयाऽभेदस्य च गौणतया विवक्ष्यते तदा स संसर्ग इति व्यवह्रियत इति भावः । फलितार्थमुभयोराह तथाचेति । भेदविशिष्टाभेद इति, अत्र भेदो गौणो विशेषणत्वात् , अभेदस्य विशेष्यत्वेन प्रधानता बोध्या । अभेदविशिष्टेति, अत्रापि विशेषणत्वाद
भेदस्य गौणत्वं विशेष्यत्वाच्च भेदस्य प्राधान्यमवसेयम् । ननु कथमत्र कालादिभिरभेदवृत्ति-: 15 रभेदोपचारो वेत्यत्राहायश्चेति, पूर्वसंघटितस्सकलादेशबोधः इत्यर्थः । पर्यायार्थिकनयस्य
गुणभाव इति, तस्य प्राधान्ये त्वभेदवृत्त्यसम्भव इति भावः । अस्य गौणत्व एव द्रव्यार्थिकनयस्य प्राधान्यं संभवति, एकदा नयद्वयस्य प्राधान्यासम्भवादित्याशयेनाह द्रव्यार्थिकनयस्येति, तत्र पर्यायार्थिकनयो गौणीकृत्य धर्मिणं धर्मात्मकपर्यायप्राधान्यप्रख्यापकः, द्रव्या
र्थिकनयः पर्यायोपेक्षया धर्मिमात्रप्राधान्यप्रख्यापक इति ॥ 20. द्रव्यार्थिकनयस्य तु गौणत्वे पर्यायार्थिकस्य च प्राधान्येऽभेदोपचारं कृत्वा लक्षणसमन्वयःकार्य इत्याशयेनाह.
द्रव्यार्थिकनयस्य गौणत्वे पर्यायार्थिकस्य प्राधान्ये त्वभेदोपचारः कार्योऽभेदासम्भावात् ॥
द्रव्यार्थिकनयस्येति । मुख्याभेदवृत्तिसमर्थकस्येत्यर्थः । पर्यायार्थिकस्येति, मुख्यभेद25 समर्थकस्येत्यर्थः हेतुमाहाभेदासम्भवादिति, अभेदवृत्त्यसम्भवादित्यर्थः ॥
१. स्यादस्त्येव, स्यान्नास्त्येव, स्यादवक्तव्यमेवेति भङ्गत्रय इत्यर्थः । २. द्रव्यपर्यायात्मकं हि वस्तु, तत्र द्रव्यनयार्पणायां तदभिन्नपर्यायाणामभानेऽपि ते सन्त्येव परन्तु पर्यायनयस्य गौणीकृतत्वात्ते गुणभूताः एकदोभयनयस्य प्राधान्यासम्भवात् न तावता तेषां नास्तित्वं दुर्नयप्रवेशापत्तेः, पर्यायार्पणया द्रव्यनयस्य गुणभावेन च पर्यायाः प्राधान्येन भासन्ते द्रव्यन्तु तदभिन्नं गुणतयेति ॥