________________
पक्षाभासः
न्यायप्रकाशसमलङ्कृते
यो यो मित्रातनयस्स स श्याम इति पक्षो यो यश्शाकाद्याहारपरिणामपूर्वक मित्रातनयस्स श्याम इति तर्केण तथा । नरशिरःकपालं शुचीति लोकेन तथा । नास्ति प्रत्यक्षातिरिक्तं प्रमाणमिति पक्षीकुर्वतचार्वाकस्य पक्षोऽयं स्ववचनेन तथा ॥
: ३९७ :
यो य इति । शाकायाहारेति, शाकाद्याहारपरिणामपूर्वकत्वमन्तरेणानुपलब्धत्वाच्छ्या- 5 मत्वस्य तद्विशिष्टश्यामत्वमेव मित्रातनयत्वव्यापकं न तु केवलं श्यामत्वं तदन्तरेणापि मित्रा - तनयत्वस्य भावादिति आवः । लोकनिराकृतसाध्यधर्मविशेषणकमभिधत्ते नरेति, लोकेनेति are हि प्राण्यङ्गत्वाविशेषेऽपि वस्तुस्वभावतः किञ्चित्पवित्रं किञ्चिदपवित्रमिति प्रसिद्धं, यथा गोपिण्डोत्पन्नत्वाविशेषेऽपि तद्दुग्धं शुद्धं न तु तन्मांसमिति लोकव्यवहार तस्तत्पक्ष निराकरणमिति भावः । स्ववचननिराकृतसाध्यधर्मविशेषणकमाचष्टे नास्तीति स्ववचनेनेति, अयम्भावः, 10 चाको हि प्रत्यक्षमेकमेव प्रमाणं नान्यदनुमानादिकमिति स्वीकरोति तदा वचनस्यास्य न प्रत्यक्षातिरिक्तं प्रमाणमस्तीत्येवं रूपस्य स्वार्थे प्रमाणाभावात् तस्य कथं स्वेष्टसिद्धिः यदि प्रमाणमभ्युपगच्छति तदा स्ववचनस्य प्रत्यक्षातिरिक्तस्यापि प्रमाणतया तेन वचनेन स्वपक्षो बाधित एवेति । ननु लोकप्रतीत साध्यधर्मविशेषणकस्य प्रत्यक्षनिराकृतसाध्यधर्मविशेषणकादिष्वेव वचनस्य शब्दरूपतया स्ववचननिराकृतसाध्यधर्म विशेषण कस्याऽऽगम निराकृतसाध्य - 15 धर्मविशेषणके चान्तर्भावसम्भवादनयोः पृथगुपन्यासो निरर्थक इति चेत्सत्यं, शिष्यशेमुषीविकसननिमित्तमनयोः पार्थक्येनाभिधानादिति ॥
अथ तृतीयमनभीप्सित साध्यधर्मविशेषणकं पक्षाभासमाह --
तृतीयो यथा शब्दस्यानित्यत्वमिच्छतश्शब्दो नित्य इति पक्षस्तस्यानभीप्सित साध्यधर्मविशेषणक इति ॥
20
तृतीय इति । तस्येति सभाक्षोभादिनैवं वदत इत्यर्थः । अनभीप्सितेति, अनित्यत्वस्यैवेष्टतया नित्यत्वस्यानभीप्सितत्वादिति भावः, इतिशब्दः पक्षाभाससमाप्तिद्योतकः, तेनाप्रसिद्धविशेषणाप्रसिद्धविशेष्याप्रसिद्धोभयेषां पक्षाभासत्वं निरस्तमप्रसिद्धविशेषणस्यैव साध्यत्वात् अन्यथा सिद्धसाधनत्वापत्तिः स्यात् सर्वत्राप्रसिद्धस्य साध्यस्य दोषत्वे क्षणिकत्वं साधयतो बौद्धस्य पक्षोऽन्यान् प्रति पक्षाभासस्यात् क्षणिकतायाः काप्यप्रसिद्धत्वात्, 25 धर्मिणश्च विकल्पात्प्रतीतिसम्भवेनाप्रतीतविशेष्योऽपि न पक्षाभासः, एतेनाप्रतीतो भयोऽपि निराकृत इति ॥