________________
विधिहेतवः ]
न्यायप्रकाशसमलङ्कृते ।
यत्वाभावेन कार्याविरुद्धेनागतार्थत्वात्पृथगुक्तिः, निश्चितव्याप्तिमत्त्वाश्चानयोर्ज्ञाप्यज्ञापकभाव इति भाव: । नक्षत्राणां पूर्वोत्तरचरत्वे निबन्धनश्च नानाप्रकारः सकलप्राणिसन्दोहसम्बन्धी सुखदुःखसम्बन्ध्यदृष्टविशेषस्तथास्वभाव एव वा ॥
अथ षष्ठं साध्याविरुद्धं सहचरं विधिहेतुं दर्शयति
रूपवान् रसादिति सहचर इतीमान्यविरुद्ध विधिहेतोरुदाहरणानि ॥ 5 रूपवानिति । रसो हि नियमेन रूपसहचरितोऽतस्तदभावेऽनुपपद्यमानस्तद्गमयतीतिभावः, एतेषूदाहरणेषु भावरूपानेव परिणामादीन् प्रयत्नानन्तरीयकत्वादयो हेतवो भावरूपा अविरुद्धा एव साधयन्तीति विधिसाधकविधिरूपाः साध्याविरुद्धोपलब्धय इत्यपरनामान इत्याशयेनाहेतीमानीति । अत्र रूपरसयोस्तुल्यकालभावित्वेन सव्येतरगोविषाणयोरिव न कार्यकारणभावः परस्परपरिहारेणावस्थानान्न तयोस्तादात्म्यं तस्मात्पूर्वोक्तेषु पञ्चविधेषु 10 हेतुषु नास्य समावेशस्सम्भवतीति पृथगुक्तिः, एवमविरुद्ध कार्यकार्यादेः कारणकारणादेः पूर्वपूर्वचरादेरुत्तरोत्तरचरादेश्व कार्यकारणपूर्व चरोत्तरचरभेदैरेव सङ्ग्रहान्नाधिक्यशङ्का कार्येति ॥
अथ विधिहेतुर्विधिसाधक एवेति नियमप्रतिषेधाय प्रतिषेधसाधकत्वमुपवर्णयितुं प्रथमं तत्प्रभेदानाह—
विरुद्धविधिहेतुः प्रतिषेधसाधकः प्रतिषेध्यस्वभावविरुद्धतद्व्याप्यादि 15 भेदेन सप्तप्रकारः ॥
: ३७९ :
विरुद्धविधिहेतुरिति । प्रतिषेध्येन विरुद्धो विधिहेतुरित्यर्थः अस्य विभागप्रकार माह प्रतिषेध्यस्वभावविरुद्धेति, अयमेको भेदः, तद्व्याप्येति, प्रतिषेध्यविरुद्ध व्याप्येत्यर्थः, आदिना कार्यकारणपूर्वचरोत्तरचरसहचराणां ग्रहणम् तथा च प्रतिषेध्यस्वभाव विरुद्धविरुद्धव्याप्यविरुद्धकार्यविरुद्धका रणविरुद्धपूर्वचरविरुद्धोत्तरचरविरुद्ध सहचरभेदेन सप्तविध 20 इति फलितार्थः ॥
"
अथ प्रतिषेध्यस्वभावविरुद्धोपलम्भरूपं विधिहेतुं निदर्शयति
नास्त्येव सर्वथैकान्तो ऽनेकान्तोपलम्भादिति प्रतिषेध्यस्य यस्स्वभावस्सर्वथैकान्तत्वं तेन साक्षाद्विरुद्धो विधिहेतुः ॥
नास्त्येवेति । सर्वथैकान्तोऽत्र प्रतिषेध्यस्तस्य स्वभावेन सर्वथैकान्तत्वेन साक्षाद्विरु- 25 द्धस्य कथचित्सदसदाद्यात्मकत्वस्वरूपस्याने कान्तस्योपलम्भो विध्यात्मको हेतुरित्याशयेनाह