________________
: ३४८ :
तव न्यायविभाकरे
किन्तच्छ्रुतज्ञानमित्याह
[ द्वितीय किरणे
मतिज्ञानापेक्षो वाच्यवाचक भावपुरस्कारेण शब्दसंस्पृष्टार्थग्रहणविशेषः श्रुतज्ञानम् । तदनुकूलोपयोगोऽपि श्रुतम् ॥
मतिज्ञानेति । मतिज्ञानसापेक्षत्वे सति वाच्यवाचकभावपूर्वकशब्दसंस्पृष्टार्थग्रहणत्वं 5 श्रुतज्ञानस्य लक्षणम्, ईहादीनां शब्दसंस्पृष्टार्थ ग्रहणरूपत्वादवग्रहात्मक मतिज्ञानापेक्षत्वाच्च श्रुतत्ववारणाय वाच्यवाचकभावपुरस्कारेणेत्युक्तम् । मतिज्ञानापेक्ष इति पदेन धारणा प्राह्या, श्रुतं प्रति धारणात्वेन हेतुत्वात्तथा च नेहादावतिव्याप्तिरिति चेत्तर्हि स्मृतावतिव्याप्तिवारणाय तत् । एकेन्द्रियाणामपि द्रव्यश्रुताभावे सत्यपि भावश्रुतमस्ति क्षायोपशमिकत्वात्, न च तर्हि लक्षणमव्याप्तं तत्र वाच्यवाचकभावपूर्वकं शब्दसंस्पृष्टार्थग्रहणरूपत्वाभावादिति 10 वाच्यम्, विशिष्टश्रुतज्ञानस्यैव लक्षणत्वात्, मतिज्ञानापेक्षवाच्यवाचकभाव पूर्व कशब्दसंस्पृष्टार्थग्रहणवृत्तिज्ञानत्वव्याप्यजातिमत्त्वस्य वा लक्षणार्थत्वात् तादृशी जातिः श्रुतज्ञानत्वं तच्च सर्वस्मिन् श्रुतज्ञाने वर्त्तत इति न कुत्राप्यव्याप्तिः । ननु श्रुतोपयोगो मत्युपयोगान्न पृथक्, मत्युपयोगेनैव तत्कार्योत्पत्तौ तत्पार्थक्यकल्पनाया व्यर्थत्वादित्याकांक्षायामाह तदनुकूलोपयोगोऽपीति, श्रुतज्ञानेऽनुकूलभूत उपयोगोऽपीत्यर्थः, श्रुतोपयोगोपरमेऽपि मतिज्ञानो15 दयान्न मत्युपयोगश्रुतोपयोगयोरैक्यमिति भावः । अत्र यद्यपि स्वामिकारणकालविषयपरोक्षत्वैर्मतिश्रुतयोरेकत्वं तथापि लक्षणभेदात्कार्यकारणभावाद्भेदविशेषादिन्द्रियविभागाद्वल्केतरभेदादक्ष रेतरभेदान्मूकेतरभेदाच्च भेदोऽवसेयः, तथाहि--निरुक्तरूपेण लक्षणभेदान्मतिश्रुतयोर्भेदः । कार्यकारणभावात्तयोर्भेदः, मतिज्ञानापेक्षं हि श्रुतं न मतिश्श्रुतज्ञानापेक्षिणी, उपयोगरूपयोस्तयोस्तथैव पौर्वापर्यात्, कार्यकारणयोश्च कथचिद्भेदात् लब्धिंतो मतिश्रुते 20 समकालेऽपि भवतोऽत एव लक्षणे मत्यपेक्ष इत्यनुक्त्वा मतिज्ञानापेक्ष इत्युक्तः, लब्धितस्तुल्यकालयोः कार्यकारणभावाभावात् यदपि परशब्दाकर्णनान्मतिज्ञानमुदेति तदपि द्रव्यश्रुतनिमित्तकमेव न भावश्रुतनिमित्तकमतो न मतिज्ञानस्य श्रुतज्ञानकारणकत्वम् । श्रुतोपयोगाच्युतस्य मतिज्ञानन्तु न श्रुतोपयोगनिमित्तकं किन्तु स्वकारणप्रभवमेव । अन्यथा कारणनैयत्याभावप्रसङ्गस्स्यात् । तथा स्वस्वावान्तरभेदात्तयोर्भेदः, मतिज्ञानं हि अष्टाविंशतिविधमुक्तं, 25 श्रुतज्ञानं चतुर्द्दशविधमिति वक्ष्यते, तयोरभेदेऽवान्तरभेदवैलक्षण्यं न भवेदेवेति तयोर्भेदः,
"
१. अवग्रहादिकं विना श्रुतज्ञानानुदयेन तत्पूर्वं मतिज्ञानरूपस्य तस्यावश्यम्भावादिति भावः ॥ २. मतिज्ञानसमानकाले श्रुतज्ञानेऽभ्युपगम्यमाने तदा श्रुताज्ञानं जीवस्य प्रसज्यते, श्रुतज्ञानोत्पत्तिमन्तरेण तदज्ञानानिवृत्तेः न च ज्ञानाज्ञानयोस्समानकालमवस्थितिर्योग्ययोर्मतिश्रुतयोः क्वचिदप्यागमेऽनुमन्यत इत्याशयेनाह लब्धित इति ॥