________________
अवधिमेदाः ।
न्यायप्रकाशसमलते नास्ति तादृशो रूपिद्रव्यविषयकः साक्षात्कारोऽवधिरित्यर्थः । मतिज्ञानादौ मनःपर्यवज्ञाने चातिव्याप्तिवारणायेन्द्रियसंयमनिरपेक्षेति पदम् । संयमप्रत्ययावधिविशेषेऽव्याप्तिवारणाय नियमेनेत्युक्तं, पुद्गला रूपिण इति शाब्दबोधस्य वारणाय साक्षात्कार इत्युक्तम् । यादृशावधिसंयमानन्तरमेव जातः तादृशावधेस्संयमसापेक्षत्वेनाव्याप्तिरतो रूपिसमव्याप्यविषयताशालिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वं लक्षणम् । परमावधिज्ञानमादाय सर्वाधिषु 5 लक्षणसमन्वयः कार्यः । रूपिव्यापकविषयताकत्वं तु न वाच्यं केवलज्ञानेऽतिव्याप्तेः । ज्ञानत्वमादाय मत्यादावतिप्रसङ्गोन्मूलनाय ज्ञानत्वव्याप्येति । विषयतापदेन स्पष्टीयविषयता ग्राह्या तेन पुद्गला रूपिण इति शाब्दबोधे नातिप्रसङ्गः, तस्यास्पष्टीयविषयताकत्वादिति ।।
स चावधिर्जघन्यतोऽङ्गुलासंख्येयभागादारभ्य प्रदेशान्तरवृद्ध्योत्कृष्टतोऽलोकेऽपि लोकप्रमाणान्यसंख्येयखण्डानि क्षेत्रविषयः, कालोऽपि जघन्यत आवलिकाऽसंख्येयभागादारभ्य 10 समयोत्तरया वृद्ध्योत्कृष्टतोऽसंख्येयोत्सर्पिण्यवसर्पिणीलक्षणो विषय इति क्षेत्रकालरूपविषयभेदादसंख्येयभेदः । द्रव्यभावलक्षणविषयापेक्षया चानन्ता अपि भेदास्तथापि संक्षेपेण तस्य भेदमाह स इति, अवधिरित्यर्थः । भवजन्यं व्याख्याति भवो जन्मेति । तस्याधिकारिणमाह यथेति । गुणजन्यं व्याख्याति गुण इति, तस्याप्यधिकारिणमाह यथेति । तथा च तेषु भेदेषु मध्ये केचन भवप्रत्ययाः केचन गुणप्रत्ययाः, ननु सम्यग्दर्शनादिगुणजन्यस्य 15 क्षायोपशमिकत्वं भवस्यौदयिकत्वेन तजन्यस्यौदयिकत्वं प्राप्तं, क्षायोपशमिकभावे चावधिज्ञानमुच्यत इति विरोध इति, मैवम् , मुख्यतया भवजन्यस्यापि क्षयोपशमनिमित्तकत्वात् सोऽपि क्षयोपशमो नारकामरभवे सत्यवश्यं भवतीति तेषां भवजन्यत्वमुक्तमिति ॥
पुनरवधीनां षोढाऽपि सङ्ग्रहस्सम्भवतीत्याह
अनुगाम्यननुगामिहीयमानवर्धमानप्रतिपात्यप्रतिपातिभेदात् षड्वि- 20 धोऽवधिः। अवधिमत्पुरुषसहगमनस्वभावोऽनुगामी॥
अनुगामीति । स्पष्टम् । अनुगामिनं लक्षयति अवधिमदिति, यस्समुत्पन्नो देशान्तरमभिव्रजन्तं स्वामिनमनुगच्छति नेत्रादिवत्सोऽनुगाम्यवधिरित्यर्थः । ईदृश एवावधिर्नारकाणां देवानाश्च भवति ।।
१. यत्र यत्रावधिविषयता तत् तत्सर्वं रूपिद्रव्यं तथा यद्यपिद्रव्यं तत्र सर्वत्रावधिविषयतेति समव्याप्यव्यापकभावो विज्ञेयः । २. तैजसभाषाद्रव्यापान्तरालवय॑नन्तप्रदेशिकायादारभ्य विचित्रवृद्धया सर्वमूर्तद्रव्याण्युत्कृष्टविषयपरिमाणमवधेरिति द्रव्यतो भावतश्च प्रतिवस्तुगतासंख्येयपर्यायरूपं विषयमानं. तस्मात्सर्वमपि पुद्गलास्तिकायमवधिग्राह्यांश्च तत्पर्यायानाश्रित्यावधिविषयोऽनन्तो भाव्यः । तथा च ज्ञेयभेदेन शानभेदाव्यभावलक्षणविषयापेक्षया अनन्तत्वमवधेरपीति भावः ॥