________________
:२४: तत्वन्यायधिभाकरे
[ अष्टमकिरणे राजवधादीति । यस्मिन् प्रतिसेविते लिङ्गक्षेत्रकालतपसां पारमश्चति तत्पाराश्चितं, पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा पारमश्चति गच्छतीत्येवं शीलं पाराश्चि, तदेव पाराश्चिकमिति नामान्तरम् । राजवधस्वलिङ्गियात्मदिसेवनाभिरिदं प्रायश्चित्तमापद्यते, एतच्चाचार्याणामेव जघन्यत षण्मासानुत्कृष्टतो द्वादशवर्षाणि यावद्भवति 5 ततश्चाऽतिचारपारगमनानन्तरं प्रव्राज्यते । प्रव्राजनञ्च राजप्रतिबोधादिप्रवचनप्रभावेण
तस्य भवतीति भावार्थः । तद्दशविधं प्रायश्चित्तं देशं कालं शक्तिं संहननं संयमविराधनाञ्च कायेन्द्रियजातिगुणोत्कर्षाश्च प्राप्य विशुद्ध्यर्थं यथाहं दीयते चाचर्यते च । तत्रोपाध्यायस्य पाराश्चिकयोग्यापराधसम्भवेऽपि अनवस्थाप्यमेव प्रायश्चित्तं न तु पाराञ्चितं, अनवस्थाप्यान्तस्यैवोपाध्यायस्य शास्त्रे प्रतिपादनात् सामान्यसाधूनामपि अनवस्थाप्यपाराश्चितयो10 ग्यापराधसम्भवे मूलान्तमेव प्रायश्चित्तं, तच्चानवस्थाप्यमाशातनानवस्थाप्यमाश्रित्य जघ
न्यतो यावत् षण्मासान् वर्षमुत्कर्षेण प्रतिसेवनानवस्थाप्यापेक्षया तु जघन्यतो वर्षमुत्कृष्टतो द्वादशवर्षाणि भवति । तीर्थकरप्रवचनगणधराद्यधिक्षेपकारी-आशातनानवस्थाप्यः, हस्तताडनसाधर्मिकान्यधार्मिकस्तैन्यकारी प्रतिसेवनानवस्थाप्य इति ॥
अधुना विनयं निरूपयति
ज्ञानदर्शनचारित्रोपचारान्यतमो विनयः, तत्र नम्रतापूर्वकं ज्ञानाभ्यासो ज्ञानविनयः । जिनेन्द्रोक्तपदार्थेषु निश्शङ्कितत्वं दर्शनविनयः । श्रद्धयाऽनुष्ठानेन च चारित्रप्ररूपणं चारित्रविनयः, गुणाधिकेष्वभ्युत्थानाद्यनुष्ठानमुपचारविनयः॥
ज्ञानदर्शनेति । अनाशातनाभक्तिबहुमानकीतिप्रकाशनात्मको विनयः कर्मरजोहारक20 त्वात् स च ज्ञानाद्यात्मकविषयभेदाच्चतुर्विधः तथा च ज्ञानदर्शनचारित्रोपचारान्यतमविष
यकानशातनादिमत्त्वं विनयस्य लक्षणम् । ज्ञानलाभायाऽऽचारविशुद्धये सम्यगाराधनाय च विनयो भवति । ज्ञानविनयमाह-तत्रेति, अनलसेन शुद्धमनसा देशकालादिविशुद्धिविधान
.
1.
15
१. मूले राजवधादीत्यनेन प्रतिसेवनापाराञ्चिकः तीर्थकरादीत्यनेनाशातनापाराञ्चिकश्च सूचितः । आये. नादिनामात्यप्राकृतगृहस्थादीनां वध सङ्ग्रहः द्वितीयेन च सङ्घश्रुताचार्यगणधरमहातपस्विनाम् ॥ २. जघन्यमिदमाशातना पाराञ्चिकस्य, अस्योत्कर्षों द्वादशमासाः। प्रतिसेवनापाराञ्चिकस्य तु जघन्यं संवत्सरकालं, उत्कर्षतस्तु द्वादशवर्षाणीति ॥ ३. अनाशातना तीर्थकरादीनां सर्वथाऽहलना, तेष्वेवोचितोपचाररूपा भक्तिः तेष्वेवान्तरभावप्रतिबन्धो बहुमानः, तेषामेव सद्भूतगुणोत्कीर्तना कीर्तिप्रकाशनम् । तीर्थकरसिद्धकुलगणसंघक्रियाधर्मध्यानज्ञानज्ञान्याचार्यस्थविरोपाध्यायगणिनां सम्बन्धीनीति विनयपदानि त्रयोदश तेषां अनाशातना. द्यपाधिभेदेन चतुर्भिर्गुणनातू द्विपञ्चाशद्भेदा भवन्तीति ॥