________________
द्वाराणि ]
न्यायप्रकाशसमलङ्कृतै
: ९९१ :
fregards तत्र यो विशेषस्तमाहैवमित्यादिना प्राय इति शेषः । छेदोपस्थापनीयः प्राय एवमेव सामायिकवदेवेत्यर्थः । प्रायश्शब्दसूचितं विशेषमाह परन्त्विति । छेदोपस्थापनीयस्य चतुर्विधारकतुल्यारकवत्सु क्षेत्रेषु नो जन्म न वा सद्भावः, संहरणतस्तु स्यात्सद्भाव इति भावः ॥
परिहारविशुद्धिसंयतं मधिकृत्याह
परिहारविशुद्धिसंयत उत्सर्पिण्यवसर्पिण्योः काले स्यान्न तु नोउत्स- 5 पिण्यवसर्पिणीकाले । उत्सर्पिण्यवसर्पिण्योर्यथायोगं द्वितीयतृतीयचतु पञ्चमारकेषु ॥
परिहारविशुद्धिसंयत इति । परिहारविशुद्ध्या संयम इत्यर्थः । उत्सर्पिण्यवसर्पिण्योः काल इति । उत्सर्पिण्यवसर्पिणीसंज्ञके काल इत्यर्थः, उत्सर्पिणीनामके कालेऽवसर्पिणी नाम काले चेति भावार्थ: । यथायोगमिति । उत्सर्पिण्यां जन्मतो दुष्षमादुष्षमसुषमा- 10 सुषमदुष्षमारूपेषु, सद्भावतस्तु दुष्षमसुषमासुषम दुष्षमारूपयोरव सर्पिण्यां जन्म तस्सुषमदुष्षमादुष्षमसुषमारूपयोस्सद्भाव तस्सुषमदुः षमादुष्षम सुषमादुष्षमारूपेष्वर केष्विति भावः ॥
अथ सूक्ष्मसम्पराययथाख्यातावाश्रित्याह—
सूक्ष्मसम्परायो जन्मसद्भावाभ्यां कालत्रये, अरकमाश्रित्य तु यथायोगं सामायिकवत्स्यात् । यथाख्यातोऽप्येवम्, संहरणतस्तु सर्वेष्वर केषु ।। 15
कालत्रय इति । उत्सर्पिण्यव सर्पिणीनो उत्सर्पिण्यवसर्पिणीरूपे कालत्रय इत्यर्थः अरकेषु कथमित्यत्राहारकमाश्रित्येति । यथायोगं सामायिकवदिति । सामायिको हि उत्सर्पिण्यां जन्मतो द्वितीयतृतीयचतुर्थेषु भवति, अयमपि तथैव, सामायिकस्तद्भावापेक्षया तृतीयचतुर्थयोः । अयन्तु सद्भावतो द्वितीयतृतीयचतुर्थेषु, द्वितीयस्यान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायते चरणं प्रतिपद्यते च चरणभावेन सद्भावविवक्षणे तृतीयचतुर्थयोरेवायमपि । अवसर्पिण्यां सामायिको जन्मसद्भावाभ्यां तृतीयचतुर्थपञ्चमेषु, अयं तु जन्मतस्तृतीयचतुर्थयोः, सद्भावापेक्षया तृतीयचतुर्थ पञ्चमेध्विति यथायोगशब्दार्थ इति भावः । इदमेव यथाख्यातेऽप्यतिदिशति यथाख्यातोऽपीति, उभयोस्संहरणं स्यान्नवेत्याशंकायामाह संहरणतस्त्विति । ननु सूक्ष्मसम्पराययथाख्यातयोरपगतवेदत्वात् कथं संहरणं, क्षीणवेदानां संहरणस्य शास्त्रे निषिद्धत्वादिति सत्यम्, सामायिकादिषु पूर्वं संहृतो यदा 25 सूक्ष्मसंपरायो यथाख्यातो वा भवति तदा भूतसंहरणमाश्रित्यैवमुक्तस्त्रेनादोषादिति ध्येयम् ॥
20