________________
द्वाराणि ]
न्यायप्रकाशसमलते भवन्तीति भावः । छेदोपस्थापनीय इति । छेदोपस्थापनीयपरिहारविशुद्धिकयोस्तु महाविदेहे मध्यमतीर्थकरतीर्थेषु चासत्त्वेनास्थितकल्पस्य चात्रैव भावात् स्थितकल्प एव तौ भवत इति भावः । ईदृश एव स्थिवकल्पवृत्तिरेवेत्यर्थः ॥ कल्पस्य जिनकल्पस्थविरकल्परूपेण द्वैवि. ध्यात्तमप्याश्रित्याह-अथवेति । कल्पातीतः, जिनकल्पस्थविरकल्पाभ्यामन्य इत्यर्थः, छेदोपस्थापनीयेति । स्यातामिति परेणान्वयः। कल्पातीत एवेति । न जिनकल्पे न वा खवि-5 रकल्पे स्यातां, जिनकल्पस्थविरकल्पधर्माणामभावादिति भावः॥ __चारित्रद्वारमाह
चारित्रद्वारे-सामायिकः पुलाको बकुशः कषायकुशीलो वा स्यात् । एवं छेदोपस्थापनीयोऽपि । परिहारविशुद्धिकसूक्ष्मसम्परायौ कषायकुशी. लावेव । यथाख्यातस्तु निर्ग्रन्थः स्नातको वेति ॥ __चारित्रद्वार इति । सामायिक इति, पुलाकवकुशकुशीलनिम्रन्थस्नातकरूपेण पञ्चनिग्रन्थभेदा अग्रे वक्ष्यन्ते । तानाश्रित्येयं विचारणा बोध्या, पुलाकादिपरिणामस्य चारित्रत्वात् । सामायिकच्छेदोपस्थापनीयौ प्रतिसेवनाकुशीलावपि स्यातां, न तु कषायकुसीलाविति केचित् । कषायकुशीलावेवेति । न तु पुलाकबकुशप्रतिसेवनाकुशीलनिर्ग्रन्थस्नातकरूपाविति भावः । यथाख्यातस्त्विति । उपशान्तक्षीणमोहो निम्रन्थः सयोगायोगकेवली 15 च स्नातक इति भावः ॥
प्रतिसेवनाद्वारमाश्रित्याह
प्रतिसेवनाद्वारे-सामायिकच्छेदोपस्थापनीयौ मूलोत्तरगुणालिसेव. कावप्रतिसेवकौ च भवतः। परिहारविशुद्धिको प्रतिसेवकः । एवं सूक्ष्मसम्पराययथाख्यातावपि विज्ञेयाविति ।।
20 प्रतिसेवनाद्वार इति । अत्र परिनिवीत्युपसर्गपूर्वकादेव वृधातोः पिवुधातोर्वा षत्वविधानेन प्रतिपूर्वकस्य षत्वाप्राप्तेः प्रतिसेव्यत इति प्रतिसेवनेत्येव व्युत्पत्तिः, इदमेव द्वारं
तेषां दशधा समाचार आज्ञप्तः, अंत्यसाधवश्च वक्रत्वेन किमप्यकृत्यं प्रतिसेव्यापि न कथयन्ति नालोचयन्ति चेति एषामपि दशधा समाचार आज्ञप्तः, तथाविधसामग्रीसमवधान एवैते तथा प्रवर्तन्ते न स्वतः, तथा चरणं न प्रन्ति, मध्यमास्तु रहस्यपि यत्प्रतिसेवितं तदवभ्यमालोचयन्ति. तजातीयानांच्चाभ्यूह्य वर्जयन्ति, अतस्तेषां चतुर्ष नियमः कृत इतिः ॥ ..