________________
सूक्ष्मसम्परायम् ]
भ्यायप्रकाशसमलङ्कृते । संसृष्टादिसप्तभिक्षासु प्रथमद्वयं वर्जयित्वा पञ्चानां भिक्षाणां ग्रहः पुनरपि विवक्षितदिने पश्चानां मध्ये द्वयोरभिग्रहो भवति । तत्र तपोविशेषमुपगतानां नवानां गणो भवति, तत्र परिहाराचारिणश्चत्वारोऽनुपरिहारिणश्चत्वारः कल्पस्थित एको वाचनाचार्य इति । सर्वेषां श्रुताद्यतिशयपरिपूर्णत्वेऽपि तेष्वेकः कल्पत्वात्कल्पस्थितोऽवस्थाप्यते । पूर्वोदितं तपो येऽनुतिष्ठन्ति ते परिहाराचारिणः, पूर्वोक्तभिक्षाभिग्रहयुक्ता नियताचाम्लभक्ता अनुपरिहारिणस्ते- 5 पामेव वैयावृत्त्यकराः, कल्पस्थितोऽपि नियताचाम्लभक्त एव । परिहाराचारिणश्च यावत् षण्मासांस्तपश्चरित्वाऽनुपरिहारिकत्वं, अनुपरिहारिणो निर्विशमानकत्वापरपर्यायं परिहाराचारित्वञ्च यावत् षण्मासं भजन्ते । मासद्वादशकानन्तरं वाचनाचार्योऽप्येवं पाण्मासिकं परिहारतपः करोति तदाऽष्टसु सप्तानुपहारिका एकः कल्पस्थितो भवति, एवमयं कल्पोऽष्टादशमासप्रमाणो विज्ञेयः । ततश्च ते पुनरमुमेव कल्पं जिनकल्पं गच्छं वाऽनुसरन्ति । तत्र 10 येऽव्यवधानेन जिनकल्पानुसारिणस्ते यावत्कथिकाः परिहारविशुद्धिका इतरे त्वित्वराः, इत्वराणां देवमानुषतिर्यग्योनिककृता उपसर्गास्सद्योघातिन आतङ्का अतीवाविषह्या वेदनाश्च न प्रादुर्भवन्ति, कल्पप्रभावात् । यावत्कथिकानान्तु सम्भवेयुरपि जिनकल्पिकानामुपसर्गादिसम्भवात् । कल्पोऽयं तीर्थकरपार्श्वे तत्समीपासेवकस्य पार्श्वे वा प्रतिपद्यते नाऽन्यस्य पार्श्वे । तथा चैतेषां यच्चारित्रं तत्परिहारविशुद्धिकमिति । एते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे 15 काले वा सम्भवन्तीत्यत्राह-एते चेति । जन्मतः सद्भावतश्च भरतेष्वैरवतेष्वेव, संहरणाभावान्न महाविदेहादिषु । जन्मतोऽवसर्पिण्यां प्रथमचरमतीर्थपतितीर्थयोः तृतीये चतुर्थे वाऽऽरके, सद्भावतः पञ्चमेऽपि, उत्सर्पिण्या जन्मतो द्वितीये तृतीये चतुर्थे च, सद्भावतस्तृतीये चतुर्थ आरके, नोत्सर्पिण्यवसर्पिणीरूपे तु चतुर्थारकप्रतिभागकाले न सम्भवन्त्येव, महाविदेहक्षेत्रे तेषामभावादिति भावः । विशेषस्त्वस्मिन् चारित्रेऽन्यतो विज्ञेयः ॥ 20
सूक्ष्मसम्परायस्वरूपमभिधत्ते- अत्यन्तकृशकषायवच्चारित्रं सूक्ष्मसम्परायम् । इदं संक्लिश्यमान विशुद्ध्यमानकं चेति द्विप्रकारम् । उपशमश्रेणीतः प्रपततः प्रथमम् , द्वितीयं तु श्रेणिमारोहतः ॥
अत्यन्तेति । संसारभ्रान्तिहेतुः कषायो लोभरूपोऽतिसूक्ष्मतया वेदना विषयत्वेन यत्र 25 वर्त्तते तच्चारित्रं सूक्ष्मसम्परायमित्यर्थः । अत्यन्तसूक्ष्मकषायसमानकालीनचारित्रत्वं लक्षणम्। - १. अत एव प्रथमतीर्थपतितीर्थे परिहारकल्पोऽयं देशोनपूर्वकोटिद्वयं परम्परयाऽनुवर्तते, चरमतीर्थपतितीर्थे च देशोनवर्षशतद्वयं, न तु तृतीया पूर्वकोटी, न. वा तृतीयं वर्षशतमिति ॥