________________
तस्वन्यायविभाकरे
[ सप्तमकिरण रीषहः । स्वस्मिन्निर्मूलं समूलं वा जनेषु कुप्यत्सु, कुप्यन्ति चेत्समूलं शिक्षयन्ति हि मामेते, नैव च मया कार्यमेवं पुनरिति, निर्मूलश्चेत्तर्हि सुतरां कोप एव न मया कार्योऽसत्यत्वादिति चानुचि. न्तनया सौम्यताऽवलम्ब्यते चेत्तदा तस्याऽऽक्रोशजयो जायत इति भावः । हेतुसत्त्वाऽसत्त्वाभ्यां
कुप्यजनविषयकसमतापरिग्रहत्वं लक्षणम् । आक्रोशस्य चारित्रमोहनीयोदयप्रयुक्तत्वेन नवम5 गुणस्थानं यावत्सम्भवेन तज्जयस्तरक्षयोपशमजन्य इत्याशयेनाह-चारित्रेति । वधपरीषहं लक्षयति-परप्रयुक्तेति । दुरात्मकैः परैश्चौरम्लेच्छशबरपरुषपूर्वापकारिद्विषल्लिङ्गान्तरैः पाणिपाणिलत्ताकशादिभिः कृतानां प्रद्वेषतस्ताडनतर्जनबन्धनाकर्षणादीनां दह्यमानेनाऽपि सुगन्धमेवोत्सृजता चन्दनेनेव पौद्गलिकमनित्यमिदं शरीरमात्मनोऽन्यदेव, आत्मा पुनर्नित्यतया
न शक्यत एव ध्वंसयितुं, अतस्स्वकृतफलमुपनतमिदं ममेति विभावयता सम्यक्सहनं 10 वधपरीषह इति भावः । परप्रयुक्तताडनतर्जनादिसहनत्वं लक्षणम् । वधस्य वेदनीयोदय
प्रयुक्तत्वेनाखिलगुणस्थानेषु सम्भवात् चारित्रमोहनीयक्षयोपशमजन्यत्वं तजयस्येत्याशयमाविष्करोति वेदनीयेति ॥
याचनापरीषहमभिधत्ते
स्वधर्मदेहपालनार्थ चक्रवर्तिनोऽपि साधोर्याचनालज्जापरिहारो याच15 नापरीषहः। चारित्रमोहनीयक्षयोपशमजन्योऽयम् । याचितेऽपि वस्तु
न्यप्राप्तौ विषादानवलम्बनमलाभपरीषहः । लाभान्तरायक्षयोपशमजन्योऽयम् । रोगोद्भवे सत्यपि सम्यक्सहनं रोगपरीषहः।। __ स्वधर्मेति । स्वधर्मार्थ देहस्य पालनाय, न तु पुष्टयर्थं, परेण लभ्यानपानवस्त्रपात्रप्रति
श्रयादेश्चक्रवर्तिनापि सता साधुनाऽवश्यमेव याचनं कार्य, नतु दीक्षितः श्रीमानपि लज्जया:20 याचनताऽऽद्रियेत, तथा च सति याचनाविजयः कृतस्स्यादिति भावः । स्वधर्मदेहपालनप्रयुक्त
साधुकर्तकयाचनालज्जापरिहारत्वं लक्षणम् । रङ्कादिकृतलज्जापरिहारपरिहाराय कर्तृकान्तम् । देहपुष्ट्यभिलाषेण साधुकृतयाचनालज्जापरिहारवारणाय स्वधर्मदेहपालनप्रयुक्तेति । चारित्रमोहोदय एव याचनालज्जासंभवेन यावन्नवमगुणस्थानं सम्भवात् तत्क्षयोपशमजन्यस्तजय इत्यभिप्रायेणाह-चारित्रेति ॥ अलाभपरीषहमाचष्टे-याचितेऽपीति । वस्तुन्यावश्यके यायितेऽ पि परेणाऽदत्तेऽन्नवस्त्रादिके परगृहे बह्वस्ति, तद्यस्य तु स्वं स तत्कदाचिद्ददाति, कदाचिच्च न, कस्तत्रास्माकमपरितोषो यन्न यच्छतीत्यादिरूपेण विचारयन् यद्यविकृतान्तरङ्गो भवेत् तदाऽलाभपरीषहस्स्यादिति भावः। याचितवस्त्वलाभप्रयुक्तविषादानवलम्बनत्वं लक्षणम् । इतरपरीषहवारणाय प्रयुक्तान्तम् , तावन्मात्रोक्तौ तु विषादावलम्बनेऽतिव्याप्तिस्यादतो
25