________________
सूक्ष्मसम्पराय० ] न्यायप्रकाशसमलङ्कृते
: १६३. : च्छन्नाग्निरिव संक्रमणोद्वर्तनादिकरणायोग्यतया यत्र व्यवस्थापनं तादृशमुपशान्तमोहगुणस्थानमित्यर्थः, इदमेव चोपशान्तकषायवीतरागच्छद्मस्थगुणस्थानमित्यप्युच्यते, क्रोधमानमायालोभोदयविगमात् , ज्ञानावरणीयादिघातिकर्मोदयावस्थानाच्च । सूक्ष्मस्यापि संज्वलनलोभस्य सर्वथोपशमनादष्टाविंशतिमोहनीयप्रकृतीनामुपशमो जात इत्याशयेनाह-अत्रेति । एतद्गुणस्थान उपशमयितुस्थितिकालनियममाह-उपशान्तमोहस्त्विति । जघन्येनैकस्समय इत्यपि 5 बोध्यम् । अन्तर्मुहूर्तानन्तरमसौ क यातीत्यत्राह-तत ऊर्ध्वमिति । उपशान्तस्यावश्यमुदयनियमेनोदिते च चारित्रमोहनीये च्यवत्येवेति भावः । ननूपशमश्रेणिरेकेनासंसारं कतिवारं कर्तुं शक्यत इत्यत्राह-चतुर्वारमिति । एकस्मिन् भवे तूत्कर्षतो द्वौ वारावुपशमश्रेणि प्रतिपद्यते परन्तु तस्य नियमेन तस्मिन् भवे न क्षपकश्रेणिः, यस्त्वेकवारमुपशमश्रेणिं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपि, आगमाभिप्रायेण तु एकस्मिन् भवे एकामेव श्रेणिं प्रतिपद्यत 10 इति ध्येयम् । ननूपशमश्रेणिमविरतादय एवारभन्ते ते च यथासम्भवं मिथ्यात्वानन्तानुबन्ध्य. प्रत्याख्यानप्रत्याख्यानावरणानामुपशमाद्भवन्ति, अन्यथा तेषामुदये सम्यक्त्वादिलाभ एव न स्यात् ततः कथमिदानीमुपशमस्तेषामुच्यत इति चेन्न पूर्व हि तेषां क्षयोपशम एवासीत् नोपशमस्तत इदानीमुपशमः क्रियते । ननु क्षयोपशमोऽप्युदिते कर्माशे क्षीणेऽनुदिते चोपशान्ते भवति उपशमोऽपि चैवम्भूत इति तयोर्विशेषाभाव इति चेन्न क्षयोपशमे तदावार- 15 कस्य कर्मणः प्रदेशतोऽनुभवनात् , उपशमे तु सर्वथा तदभावात् , ननु यदि सत्यपि क्षयोपशमे मिथ्यात्वानन्तानुबन्ध्यादिकषायाणां प्रदेशानुभवोऽस्ति तर्हि कथं न सम्यक्त्वादिगुणविघातः, तदुदये नियमेन सतोऽपि सम्यक्त्वादेरपगमात्, यथा सास्वादनसम्यग्दृष्टेरिति चेन्न प्रदेशानुभवस्य मन्दानुभावत्वात् , मन्दानुभावो ह्युदयो न स्वावार्यगुणविघातमाधातुमलम् , यथा चतुर्जानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः । तथाहि मतिज्ञानावरणा- 20 दिकं कर्म ध्रुवोदयं ध्रुवोदयत्वाच्चाऽवश्यं विपाकतोऽनुभवनीयं, विपाकानुभवापेक्षयैव ध्रुवोदयत्वाभिधानात् , अथ च तत्सकल चतुर्सानिनो न मत्यादिज्ञानविघातकृद् भवति, तदुदयस्य मन्दानुभावत्वात् , तद्यदि विपाकतोऽप्यनुभूयमानं मन्दानुभावोदयत्वान्न स्वावार्यगुणविघाताय प्रभवति, तदा प्रदेशतोऽनुभूयमानमनन्तानुबन्ध्याद्यपि सुतरां तद्गुणविघाताय न भविष्यति, तदुदयस्यातीव मन्दानुभावत्वादिति ।। अत्रस्थो जीव एकप्रकृतेर्बन्धकः, एकोनषष्टिप्रकृतेर्वेद- 25 यिता, अष्टचत्वारिंशदधिकशतसत्ताकश्च भवेदिति ॥
अथ क्षपकश्रेणिमाश्रितस्य किट्टीकृतसंज्वलनलोभस्य ततः प्राप्यं स्थानं द्वादशमाचष्टे
१. पूर्वगुणस्थानेष्वप्युपशमकस्येयत्येव सत्ता विज्ञेया ॥