________________
तस्वम्यायविभाकरे
[ सप्तमाकरणे
ज्यते, तत्रापि प्रत्येकं देशसभेदादष्टधा भवति, तत्राऽऽहारपोषधो देशतो विवक्षितविकृतेरविकृतेराचाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्याहारस्याऽहोरात्रं यावत्प्रत्याख्यानम् , शरीरसत्कारपोषधो देशतश्शरीरसत्कारस्यैकतरस्याऽकरणम्, सर्वतस्तु
सर्वस्यापि तस्याऽकरणम् , अब्रह्मत्यागरूपब्रह्मचर्यपोषधोऽपि देशतो दिवैव रात्रावेव सकृदेष 5 द्विरेव वा स्त्रीसेवा मुक्त्वा ब्रह्मचर्यकरणम् , सर्वतस्वहोरात्रं यावद् ब्रह्मचर्यपालनम् ।
अव्यापारपोषधस्तु देशतो एकतरस्य कस्यापि कुव्यापारस्याऽकरणम् , सर्वतस्तु सर्वेषां कृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादीनामकरणम् । तत्र देशतः कुव्यापारनिषेधे सामायिक तु करोति न वा, सर्वतः कुत्र्यापारनिषेधे तु नियमात्तत्करोति । अकरणे तु तत्फलेन
वंच्यते । सर्वतः पोषधव्रतञ्च चैत्यगृहे वा साधुमूले वा गृहे वा पोषधशालायां वा त्यक्तमणि10 सुवर्णाद्यलंकारो व्यपगतमालाविलेपनवर्णकः परिहृतप्रहरणः प्रतिपद्यते, तत्र च कृते पठति
पुस्तकं वाचयति, धर्मध्यानं ध्यायति यथैतान साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति । एतेषां चाहारादिपदानां चतुर्णा देशसर्वभेदानामेकद्व्यादिसंयोगजा अशीतिर्भङ्गा भवन्ति, तदेतत्सर्वमन्यग्रन्थेभ्योऽवसेयमिति तृतीयं शिक्षापदव्रतम् ।। अथाऽतिथिसंविभाग.
व्रतं, न विद्यन्ते सततप्रवृत्त्या विशदैकाकारानुष्ठानतया तिथयो दिनविभागा यस्य सोऽतिथिः, 15 उक्तञ्च । तिथिपर्वोत्सवास्सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं
विदु' रिति । तस्य सङ्गतो विभागोऽतिथिसंविभागः, तथा च तिथिपैर्वादिलौकिकपर्वपरित्यागाद्भोजनकाल उपस्थितेभ्यः साधुभ्यो न्यायागतानां कल्पनीयानामन्नपानादीनां देशकालश्रद्धासत्कारक्रमयुक्तेन परया भक्त्याऽऽत्मानुग्रहबुद्ध्या यहीयते सोऽतिथिसंविभाग
स्तद्रूपं व्रतमिति । आदिनात्र वस्त्रपात्रादीनां ग्रहणम् , न च शास्त्रे वस्त्रादिदातार आहारदा20 तृश्रवणमिव न श्रूयन्ते न वा वस्त्रदानस्य फलमिति वाच्यम् , भगवत्यादौ वस्त्रादिदानस्य
साक्षादुक्तत्वात् , संयमोपकारित्वाच्च तेषाम् । अत्र वृद्धोक्ता सामाचारी-पोषधं पारयता श्रावकेण नियमात्साधुभ्यो दत्त्वा पारयितव्यमन्यदा पुनरनियमो दत्वा वा पारयति पारयित्वा
१. अभ्यागतव्यावृत्तये साधुभ्य इत्यन्तं पदम् । अन्यायेनाऽऽगतानामन्त्रादीनां व्यावर्त्तनाय न्यायागतानामिति, द्विजक्षत्रियविटशूद्राणां स्ववृत्त्यनुष्ठानं न्यायं, स्ववृत्तिश्च प्रायो लोकव्यवहार्या प्रसिद्धव, अकल्पनीयव्यवच्छेदाय कल्पनीयानामिति, उद्मादिदोषवर्जितानामिति तदर्थः । अन्नपानादीनामित्यत्रादिना वस्त्रपात्रौ. षधादिपरिग्रहः, इदञ्च विशेषणं हिरण्यादिव्यवच्छेदाय । अदेशाकालासत्काराक्रमव्यवच्छेदाय देशकालसत्कारक्रमयुक्तनेति, तत्र नानाव्रीहिकोद्रवकगोधूमादिनिष्पत्तिभाक् देशः, सुभिक्षदुर्भिक्षादिः । कालः, विशुद्धचित्तपरिणामः श्रद्धा, अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः, पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, तैयुक्तनेत्यर्थः । फलप्राप्तौ भक्तिकृतमतिशयमाह परया भक्त्येति, यत्यनुपहबुद्धया प्रदानवारणायाऽऽत्मानुग्रहबुद्धयेति ॥