________________
मिथ्यादृष्टिगु० ] न्यायप्रकाशसमलङ्कृते
:१२३: अनाभोगिकं च मिथ्यात्वमव्यक्तमिथ्यात्ववत एवेति ध्येयम् । केषां व्यक्तमिथ्यात्वमित्यत्राह-इदश्चेति । एवपदेनैकद्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाणां व्यवच्छेदः, तत्र व्यक्तमिथ्यात्वक्रियाया अभावात् । ननु ज्ञानदर्शनचारित्रात्मका हि गुणाः, ज्ञानादीनां विपर्यासेन मिथ्यादृष्टौ कथं गुणस्थानसम्भव इति चेदुच्यते, तत्त्वेष्वास्थारूपजीवगुणस्य सर्वतो भावेन घातिनो मिथ्यात्वमोहनीयस्य विपाकोदयतो वस्तुप्रतिपत्तिरूपा दृष्टिर्यद्यपि विप- 5 यस्ता तथापि काचिन्मनुष्यपश्वादिप्रतिपत्तिरन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ता भवति चन्द्रप्रभाकरप्रभायां सघनघनपटलसमाच्छादितायामपि काचित्प्रभेव । नहि तयोः प्रभा नूतनजलधरघनपटलेनैकान्तेन तिरस्कृता विनश्यति, दिनरजनिविभागाभावप्रसङ्गात् । तथा प्रबलमिथ्यादर्शनकर्मोदयेऽपि काचिदविपर्यस्ता दृष्टि- . र्भवतीत्येतदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसम्भव उक्तः । न च कथमसौ मिथ्यादृष्टिरेव, 10 कथंचिदविपर्यस्तप्रतिपत्त्यपेक्षया सम्यग्दृष्टित्वादिति वाच्यम्, जिनोदितैकाक्षरेऽप्यनादरे मिथ्यादृष्टित्वेनाप्रतिपन्नतत्त्वानामेषां सुतरां मिथ्यादृष्टित्वात् । न च जिनोदितसकलपदार्थाभिरोचनात्कतिपयपदार्थानामरोचनाच्च सम्यमिथ्यादृष्टिरेवायमिति वाच्यम् । एकस्मिन्नपि वस्तुनि पर्याये वा एकान्तेन विप्रतिपत्तिं प्रतिपन्नस्यास्य मिथ्यादृष्टित्वात् । मतिदौर्बल्यादिना तत्रैकान्तेन सम्यक्परिज्ञानमिथ्यापरिज्ञानाभावत एकान्तेन श्रद्धानविप्रतिपत्त्यभाववत एव 15 सम्यङ्मिथ्यादृष्टित्वादिति विभावनीयम् ॥
अव्यक्तमिथ्यात्वमाचष्टे
अव्यक्तो मोहोऽव्यक्तमिथ्यात्वम् । इदमनादि । व्यक्तमिथ्यात्वप्राप्तुरेव मिथ्यात्वगुणस्थानं भवेदिति केचित् । अस्य स्थितिभव्यजीवमाश्रित्यानादिसान्ता । सादिसान्ता च पतितभव्यस्य । अभव्यमाश्रि- 20 त्यानाद्यनन्ता ॥ . ....
.. .......... अव्यक्त इति । अत्र मिथ्यात्वं न विपर्यस्तबुद्धिरूपम् अव्यवहारराशिवृत्तित्वात् । किन्तु दर्शनप्रतिबन्धकमोहनीयप्रकृतिरूपमित्याशयेनोक्तमव्यक्तो मोह इति । इदश्चाव्यक्तमिथ्यात्वं जीवेन सहानादिकालीनमित्याह--इदमिति । ननु मिथ्यादृष्टयस्सर्वाण्यपि जीवस्थानानि यद्यपि लभन्ते तथापि प्राप्तव्यक्तमिथ्यात्वबुद्धय एव व्यवहारराशिवर्तिनो जीवाः प्रथम- 25 गुणस्थानं लभन्त इति रत्नशेखरसूरीणामभिप्रायं दर्शयति व्यक्तमिथ्यात्वेति । एव शब्देनाव्यवहारराशिवर्तिनामन्येषाश्चाव्यक्तमिथ्यात्वभाजां व्युदासः । गुणस्थानबहिर्भूतस्य संसारिणो जीवस्य कस्याप्यभावादव्यक्तमिथ्यात्वभाजोऽपि प्रथमगुणस्थानान्तर्गता एवेति ग्रन्थकृदाशयः।