________________
तस्वन्यायविभाकरः
....बच्छकिरणे पारिग्रहिकीमभिधत्ते
जीवाजीवविषयिणी मूर्छानिवृत्ता क्रिया पारिग्रहिकी ॥ जीवाजीवेति । जीवाजीवविषयकमूर्छानिवृत्तक्रियात्वं लक्षणम् । विविधोपायैरर्थोपाजनरक्षणमूर्छापरिणामः परिग्रहस्तत्र भवा पारिग्रहिकी। इयञ्च जीवाजीवभेदेन द्विविधा । 5 औपश्चममसौ॥
मायाप्रत्ययिकीमभिधत्ते___ मोक्षसाधनेषु मायाप्रधाना प्रवृत्तिर्मायाप्रत्ययिकी ।
मोक्षसाधनेति । मोक्षसाधनविषयकमायिकप्रवृत्तित्वं लक्षणम् । मोक्षसाधनेषु ज्ञाना. दिषु स्वपरवश्वनाभिलाषुकस्य या मायाहेतुका चेष्टा सेत्यर्थः । सप्तमगुणस्थानं यावदियम् ॥ 10 मिथ्यादर्शनप्रत्ययिकीमाह--
अभिगृहीतानभिगृहीतभेदभिन्ना अयथार्थवस्तुश्रद्धानहेतुकव्यापारवती क्रिया मिथ्यादर्शनप्रत्ययिकी ॥
अभिगृहीतेति । मिथ्यादर्शनं विपरीततत्त्वप्रतिपत्तिरूपं प्रत्ययः कारणमस्या इति _ विग्रहः। तत्राभिगृहीता जीवादीनां हीनाधिकपरिमाणादिप्रख्यापकदर्शनानुमन्तृपुरुषविषयिणी, 15 अनभिगृहीता कुदृष्टिमताविश्वस्तजीवविषयिणी, अभिगृहीतभिन्नत्वबोधकेनानभिगृहीतपदेन
तृतीया संदिग्धापि ग्राह्या, सा च शास्त्रैकाद्यक्षरविषयकसंशयप्रभवा । अयथावद्वस्तुश्रद्धानमेव हेतुर्यस्य व्यापारस्य तादृशव्यापारवती तादृशव्यापाराभिन्नव्यापारप्रयोजिका या क्रिया अनुमोदनाद्यात्मिका सेत्यर्थः । विपरीततत्त्वप्रतिपत्त्यादौ हि अनुमोदनादिकं अयथार्थवस्तु
श्रद्धानवानेव करोति कारयति चेति भावः । आतृतीयमसौ ॥ 20. अप्रत्याख्यानिकीमाह-:...
. जीवाजीवविषयिणी विरत्यभावानुकूला क्रिया प्रत्याख्यानिकी । जीवाजीवेति । संयमविघातकारिकषायादीनां न प्रत्याख्यानं परिहारो यस्यां साऽप्रत्या
१. पारिग्रहिकीसत्त्वे आरम्भिकोमायाप्रत्ययिक्योर्नियमेन सत्त्वम् , मिथ्यादर्शनप्रत्ययिक्यप्रत्याख्यानिक्योस्तु न नियमः । यस्य च मायाप्रत्ययिकी तस्य मिथ्यादर्शनप्रत्ययिकी, अप्रत्याख्यानिकी म्यान्नवा । अनयोश्च सत्त्वे मायाप्रत्ययिकी नियमतो वर्तते । अप्रत्याख्यानिकीसत्त्वे तु मिथ्यादर्शनप्रत्ययिक्या एवानियमो बोध्यः ॥ २. इयमप्रमत्तस्य कदाचित्प्रवचनमालिन्यरक्षणार्थ भवति, न शेषकाल इति ॥"