________________
Hire ]
न्यायप्रकाश समलङ्कृते
: १०५ :
श्रवयोः कार्यकारणभावप्रवाहस्यानादितयोत्तरोत्तरं प्रति पूर्वपूर्वस्य कारणत्वाभ्युपगमेन तद्नवकाशात्, बीजाङ्कुरयोः कार्यकारणभाववत् । ननु बन्धास्रवयोरेतावता समतैव स्यान्न तु विशेषस्तथा चाऽऽश्रवहेतुर्बन्ध इत्यपि बन्धस्य लक्षणं स्यान्न चैतदस्ति, कषायाद्यनुविद्धस्य जीवस्य नूतनकर्मपुद्गलैः सह सम्बन्धो बन्ध इति लक्षणश्रवणादिति चेन्न, शरीरस्य स्नेहाभ्यङ्गाद्रेणुसंश्लेषवदास्रवस्योत्पत्त्यनन्तरमेव बन्धहेतुत्वात् न चैवं बन्धस्य साक्षादाश्रवं 5 प्रति हेतुत्वं, क्षेत्रकालादिसहकार्यपेक्षयोदयावस्थाप्राप्तस्यैव कर्मणोऽर्थक्रियाकारित्वात्, न तु बद्धमात्रेणास्रवं जनयितुमलम् । सोऽयमास्रवः पूर्वं द्विचत्वारिंशद्विधः प्रोक्तः । तत्र यद्यपि मनोवाक्कायानां शुभाशुभरूपा ये वीर्यान्तरायक्षयोपशमजन्या वीर्यप्राणोत्साहपराक्रमचेष्टाशक्तिसामर्थ्यादिशब्दवाच्या योगास्त एवास्रवाः, तत्र कायात्मप्रदेशपरिणामोऽशुभो हिंसास्तेयाब्रह्मादिरूपः, एतद्विपरीतश्शुभो गमनादिक्रियाहेतुः काययोगः । भाषायोग्यपुद्गलात्म - 10 प्रदेश परिणामोऽशुभस्सावद्यानृतपरुषपिशुनादिरूपः, शुभ एतद्विपरीतरूपो वाग्योगः । मनोयोग्यपुद्गलात्मप्रदेशपरिणामोऽशुभोऽभिध्याव्यापादेर्ष्यासूयादिरूपः, शुभश्चैतद्विपरीतरूपो म नोयोग इति, तथापि विवक्षाभेदाद्विचत्वारिंशद्विधाः प्रोक्ताः । अयमाश्रवस्सकषायस्याकषायस्यापि भवति, तत्राकषायस्य वीतरागस्यैकसमयस्थितिककर्मण एवास्रवो भवति, सकषायस्य मिध्यादृष्ट्या दिसूक्ष्मसम्परायान्तस्य तु संसारपरिभ्रमणकारणकर्मण एवास्रवो भवतीति 15 बोध्यम् । यद्यपीन्द्रियकषायात्रतयोगानां क्रियास्वभावानतिवृत्तेः क्रियावचनेनैवैषां गतार्थता, व्यापाराभाव इन्द्रियादीनामकिञ्चित्करत्वात्, तथापि क्रियास्वभावत्वमेतेषां न नियतं, नामस्थापनाद्रव्येन्द्रियादौ क्रियाभावात्, यद्वा नैवमेकान्ततस्तानि क्रियास्वभावान्येवेति, किन्तु द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यतरस्यात्क्रियास्वभावानतिवृत्तिः, पर्यायार्थिकगुणभावे द्रव्यार्थिकप्राधान्यात्स्यात्क्रियास्वभावातिवृत्तिरिति । शुभाशुभाश्रवपरिणामाभिमुखत्वादिन्द्रिय- 20 कषायाव्रतानां द्रव्यास्रवत्वं, भावास्रवः कर्मादानं, तच्च पञ्चविंशतिक्रियाभिरास्रवति कर्मेत्येतदर्थमिन्द्रियकषायाव्रतानामुपादानम् ॥
वस्तुतस्तु कायवाङ्मनसां क्रिया आस्रवास्तेषां गतीन्द्रियकषायलेश्यायोगोपयोगज्ञानदर्शनचारित्रवेदादिपरिणामवतो जीवस्य धर्मरूपत्वात्ते जीवात्मकाः, कायवाङ्मनःप्रभवत्वातत्स्वरूपा वा, एतदेवाभिप्रेत्याह
पौद्गलिकोऽयम् | आत्मप्रदेशेषु कर्मप्रापिका क्रिया द्रव्याश्रवः, कर्मोंपार्जन निदानाध्यवसायो भावाश्रवः ॥
१४
25