________________
७४ तस्वन्यायविभाकरे
[ चतुर्थकिरणे कीर्तिरित्यर्थः, सर्वेति, सर्वदिग्व्यापिनी गुणख्यातिर्यश इत्यर्थः । प्रकारान्तरेणाह-दानेति, अथवा पराक्रमतपस्त्यागाद्युद्भूतयशसा यत्कीर्तनं श्लाघनं सा यशःकीर्तिरिति तृतीयातत्पुरुषोऽपि भाव्यः । वसनामकर्मप्रभृति यशःकीर्तिनामपर्यन्तं यावत् दश नामकर्माणि विभागवाक्योक्तत्रसदशकशब्दवाच्यानीत्यभिप्रायेणाह इमानीति ॥ . ___अथ देवायुषो लक्षणमाह
देवभवनिवासकारणायुः प्रापकं कर्म देवायुः॥
देवभवेति । भवः संसारः, चतुर्गतिको देवमनुष्यतिर्यङ्नरकभेदात् । तत्र भवनिवासे आभ्यन्तरं कारणमायुः । तत्र यस्य भावादात्मनो जीवितं यदभावाच्च मरणमुच्यते तदायुः
यत्सन्निधानाद्वा जीवेन शेषप्रकृतय उपभोगायाऽऽनीयन्ते तदायुस्सोपक्रमनिरुपक्रम10 भेदभिन्नं पौद्गलिकञ्च । आगमोक्तैरुपक्रमैरध्यवसायाद्यैर्बहुना कालेन वेद्यमपि यदल्पकालेन
भुज्यते तत्सोपक्रममायुः । तच्च बन्धनसमये श्लथं बद्धं शक्यापवर्तनं तथा । यत्तु बन्धसमये गाढं बद्धं क्रमवेद्यफलं अशक्यापवर्त्तनं, अध्यवसानादिभ्यो निर्गतञ्च तन्निरुपक्रमम् । तत्रानपवायुष औपपातिका अन्त्यदेहाः, तीर्थकरचक्रवर्त्यर्धचक्रवर्तिनोऽसङ्ख्येयवर्षायुषो
मनुष्यास्तिर्यग्योनिजाश्च । शेषा मनुष्यास्तिर्यग्योनिजाः सोपक्रमा निरुपक्रमाश्चापवल्युषोऽ15 नपवर्त्यायुषश्च भवन्ति । तत्रायुषो बन्धकाः सम्यङ्मिथ्यादृष्टिविरहिता मिथ्यादृष्टेरारभ्या
प्रमत्तगुणस्थानं यावत् षट्त्सु स्थानेषु जन्तवोऽजघन्योत्कृष्टाध्यवसायविशेषभाजः पृथुकषायास्साद्यधुवायुर्विकल्पयुजः । अप्रमत्तगुणस्थानवर्तिनस्तु निष्ठापका एव । तथा नारकदेवासंख्येयवर्षायुष्कतिर्यङ्मनुष्याः षण्मासावशेषायुषोऽत्र्यभवजीवितं बध्नन्ति । शेषास्तु निजायुष
स्तृतीये नवमे सप्तविंशेऽवशेषायुर्भागे तद्वध्नन्ति । तत्रापि पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतु20 रिंद्रियाणां निरुपक्रमायुषाश्च पश्चेन्द्रियाणां नियमतस्तृतीये, सोपक्रमायुषाश्च पञ्चेन्द्रियाणां
तृतीये नवमे सप्तविंशे वा भागेऽवशेषेऽवशिष्टान्तर्मुहूर्तायुषि वा बन्धो बोध्यः । इयमेव भवस्थितिः । एवञ्च देवभवनिवासे हेतुभूतं यदायुः तत्प्रापकं कर्म देवायुर्नामेत्यर्थः । देवभवनिवासहेत्वायुःप्रापकत्वे सति कर्मत्वं लक्षणार्थः, मनुष्यायुरादौ व्यभिचारवारणाय हेत्वन्तं
देवपदमप्यत एव । अस्य परा स्थितिस्त्रयस्त्रिंशत्सागरोपमा, पूर्वकोटित्रिभागोऽबाधा, जघन्या 25 च दशवर्षसहस्राणि, अबाधा त्वन्तर्मुहूर्तम् । आयुषोऽबाधायां भङ्गचतुष्टयं पूर्वकोट्यायुष्को मनुजत्रिभागावशेषे आयुष्युत्कृष्टस्थितिकमागामिदेवभवायुषं यदा बध्नाति तदोत्कृष्टस्थि
१. यऽपवायुषस्तेषां विषशस्त्रकण्टकादिभिः क्षुत्पिपासादिभिश्वायुरपवर्त्यते, झटिति कर्मफलस्यान्तर्मुहूर्तादुपभोगोऽपवर्तना, तेन न कर्मणः कृतनाशाकृताभ्यागमादिप्रसक्तिः । २. एते सोपक्रमा निरुपक्रमाश्च ।