________________
चादरनामकर्म ]
न्यायप्रकाशसमलहते अथ निर्माणनामकर्माचष्टे
जातिलिङ्गाङ्गप्रत्यङ्गानां प्रतिनियतस्थानसंस्थापनाप्रयोजकं कर्म निमाणनाम ॥
जातीति । जातिरेकेन्द्रियादिस्तत्र स्वस्वजात्यनुसारेणेति यावत् , लिङ्गं रूयादीनां यदसाधारणं चिह्न, तस्याङ्गानां प्रत्यङ्गानाञ्च प्रतिनियतस्थानेषु या संस्थापना व्यवस्था तत्र 5 प्रयोजकं यत्कर्म तन्निर्माणनामकर्मेत्यर्थः, जातिलिङ्गाङ्गप्रत्यङ्गविषयकप्रतिनियतस्थानव्यवस्थाप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । अङ्गोपाङ्गनामकर्मादावतिव्याप्तिवारणाय प्रतिनियतस्थानव्यवस्थेति पदम् । तदिदं कर्म सूत्रधारसन्निभम् , तदभावे हि निर्वर्तितानामप्यङ्गोपाङ्गनामादिकर्मणा शिरउरआदीनां नियतस्थानवृत्तितानियमो न स्यादिति भावः, अस्योभयविधा स्थितिः पञ्चन्द्रियवत् ।।
10 अथ त्रसनामकर्माभिधत्तेउष्णाद्यभितप्तानां स्थानान्तरगमनहेतुभूतं कर्म त्रसनाम।
उष्णादीति । उष्णादीत्युपलक्षणं तथा च सति कारण इति भावः । इदश्च विहायोगत्यादावतिप्रसङ्गभङ्गाय । विशेषणविशेष्यपदफलं पूर्ववत् । न च गर्भाण्डजमूञ्छितसुषुतादीनां त्रसत्वं न स्यात् , भयहेतुप्राप्तावपि चलनाभावात्तथा चाव्याप्तिरिति वाच्यम् , तत्रापि 15 स्थानान्तरगमनयोग्यताया भावात् । पञ्चेन्द्रियवदस्य स्थिती बोध्ये ॥
बादरनामाहचक्षुर्वेद्यशरीरप्रापकं कर्म वादरनाम ।।
चक्षुर्वेद्येति । अत्र चक्षुर्वेद्यत्वं नाम स्थूलतापरिणामो विवक्षितः, तथा च यस्योदयात् पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुह्यत्वाभावेऽपि बहूनां समुदाये स्थूलत्वपरिणामभा- 20 वाञ्चक्षुषा ग्रहणं भवति तद्वादरनामेति भावः । सूक्ष्मनामकर्मादावतिव्याप्तिवारणाय चक्षुर्वेयेति । चक्षुर्ग्रहणयोग्यशरीरनिवर्तकत्वे सति कर्मत्वं लक्षणार्थस्तेन प्रत्येकं पृथिव्यादिशरीराणां प्रत्येकं चक्षुर्वेद्यत्वाभावेऽपि स्थूलत्वपरिणामयोग्यत्वान्नाव्याप्तिः । विशुद्धावधिवेद्यशरीरप्रापकसूक्ष्मनामकर्मण्यतिव्याप्तिवारणाय चक्षुरिति । अस्य स्थिती पञ्चेन्द्रियवत् ॥ १. १ जीवविपाक्यप्येतच्छरीरपुद्गलेष्वपि काञ्चिदभिव्यक्तिं दर्शयति, न च जीवविपाकिकर्मणश्शरीरे स्वशक्तिप्रकटनमसङ्गतमिति वाच्यम् , क्रोधादेर्जीवविपाकिनोऽपि कुपितनरशरीरे भ्रूभङ्गादिजननदर्शनात् , कर्मशक्तेर्विचित्रत्वाच ॥