________________
: ५२ : तत्त्वन्यायविभाकरे
[ तृतीयकिरणे लवत् परस्परमनाश्लिष्टत्वादिति वाच्यम् , आवेशतो योग इत्यनुक्तेः किन्तु निरवयवत्वात् , तस्य च द्रव्यप्रदेशान्तरं न संयुक्तमपि तु स्वयमेवेति न कश्चिद्दोषः । अपि च योगस्सम्प्राप्तिलक्षणो न चासौ प्रदेशैरेव क्रियते, निष्प्रदेशस्यापि स्वयं प्राप्तौ विरोधाभावात् । एवं परमाणव एते प्रतिघातिनोऽप्रतिघातिनश्च तत्र प्रतिघातत्रिविधो बन्धलक्षण उपकाराभावलक्षणो वेगलक्षण5 श्चेति । बन्धपरिणामप्रतिघातः स्निग्धरुक्षत्वप्रयुक्तबन्धतः, लोकादन्यत्र जीवाजीवानां गतेः प्रतिघात उपकाराभावान् , आगच्छता वैस्रसिकवेगवता परमाणुना परमाणोः प्रतिघातो वेगात् वेगवतोरेवाण्वोः प्रतिघातात्, एकस्मिन्नेवाकाशप्रदेशेऽनन्तानामपि परमाणूनामवगाढत्व मप्रतिघातपरिणामात् , व्याप्तैकापवरके प्रदीपप्रभयेवान्यप्रदीपप्रभाणां, शीततमइशब्दपुद्गला
नामप्रतिघातित्वदर्शनात् । इत्थश्च परिणामविशेषात्प्रतिघातित्वमप्रतिघातित्वञ्च सम्भवति 10 पुद्गलेषु, यथा शब्दस्तावत् तिरस्कृतोऽपि कुड्यादिभिरप्रतिहन्यमानः श्रवणपथमभ्युपैति, स
एव कदाचिदुह्यमानत्वाद्वायुना प्रतिहन्यते प्रतिवातस्थितेनानुपलभ्यमानत्वात्, अनुवातस्थितेनोपलभ्यमानत्वाच्चेति दिक् ।।
अथ पुद्गलानां न केवलं स्पर्शादय एव धर्मा अपि तु शब्दादयोऽपीत्याह
शब्दान्धकारोद्योतप्रभाच्छायाऽऽतपादिपरिणामवान् ॥ 15 शब्देति । प्रत्यर्थनियतसङ्गतवर्णादिविभागवान् ध्वनिः शब्दः, अनादिवृद्धपरम्परा
संकेतप्रसिद्धिवशात् प्रत्यर्थनियतत्वं, परस्परापेक्षातः स्वाभिधेयैकार्थकारितया शिबिकोद्वाहकवत् सङ्गतत्वं वर्णपदवाक्यानि, अव्यक्तशब्दश्च विभागस्तद्वान् ध्वनिरेव शब्दस्स च पुद्गलपरिणामत्वात्प्रतिविशिष्टपरिणामानुगृहीतः पुद्गलद्रव्यरूप एव, अत एव मूर्त्तत्वं द्रव्या
न्तरविक्रियापादनसामर्थ्याच्च । न च शब्दो न पुद्गलपरिणामो निश्छिद्रभवनाभ्यन्तरतो 20 निर्गमनात् , तत्र बाह्यतः प्रवेशात् , व्यवधायकाभेदनादेश्च दर्शनात् , यस्तु पुद्गलस्वभावो
न तस्यैवंदर्शनं, यथा लोष्ठादेः, तथादर्शनं च शब्दस्य, ततो न पुद्गलस्वभावत्वमिति वाच्यम् , पुद्गलस्वभावत्वेऽपि तदविरोधात् सूक्ष्मस्वभावत्वाद्धि तस्य निश्छिद्रनिर्गमनादयो न विरुद्ध्येरन् स्नेहादिस्पर्शादिवत् , कथमन्यथा पिहितकलशाभ्यन्तरतस्तैलजलादेर्बहिनि
१ बन्धपरिणामोऽन्योऽन्याङ्गाङ्गिभावपरिणामः, न तु नैरन्तर्येण परस्परं संयोगमात्रं, तथा सति प्रतिघातो न स्यादेव । अनन्तानामपि परमाणूनां संयोगवृत्त्यै कस्मिन्नाकाशप्रदेशेऽप्रतिघातेन वृत्तेरिति भावः । २ एकस्मिन् परमाणौ कथं प्रतिघातित्वाप्रतिघातित्वे विरुद्ध स्त इत्याशंकायां सदृष्टान्तमाहेत्थञ्चेति । ३ स्वयं विशेषणानाम र्थमाहानादीति । ४ शब्दस्य मूर्तपुद्गलपरिणामत्वादेवेत्यर्थः । शब्दस्य मूर्तत्वे हेत्वन्तरमाह द्रव्यान्तरेति. चशब्दो हेत्वन्तरसमुचायकः, तेन प्रतीपयायित्वावारानुविधायित्वादित्यादयो हेतवो ग्राह्याः ॥