SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सप्तभङ्गीनिरूपणम् ( ८३ ) तिषेधमुखेन विधिविषयकं बोधं जनयति । अत्र स्याच्छन्दोऽभेदप्राधान्येनाभेदोपचारेण वा सामान्यतः अनन्तधर्मवन्तमाह । अस्तिशब्दोऽस्तित्वधर्मवन्तमाह । एवकारः अयोगव्यवच्छेदमाह, तथा चाभेदप्राधान्येनाभेदोपचारेण वा सामान्यतोऽनन्तधर्मात्मको घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगि स्वद्रव्याद्यवच्छि - नास्त्विवानिति बोधः ॥ घटः स्यान्नास्त्येवेति द्वितीयं वाक्यमन्यधर्माप्रतिषेधमुखेन निषेधविषयकं बोधं जनयति । अत्रापि तादृशो घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगिपरद्रव्याद्यवच्छिन्ननास्तित्ववानिति बोधः ॥ स्यादस्ति नास्ति च घट इति तृतीयं वाक्यं तादृशे घटे क्रमार्पितस्वपररूपाद्यवच्छिन्नास्तित्वनास्तित्वावच्छिन्नत्वं बोधयति । तथा च तादृशो घटः क्रमार्पितस्वपररूपाद्यवच्छिन्नास्तित्वनास्तित्वोभयधर्म वानिति बोधः ॥ स्यादवक्तव्य एव घट इति चतुर्थं वाक्यं युगपत् स्वरूपपररूपादीनामपेक्षणे वस्तु न केनापि शब्देन वाच्यमिति बोधयति । तथा च तादृशो घटः सत्त्वा
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy