________________
आभासनिरूपणम्
(७७) साध्यहेत्वोः सत्त्वेऽपि यो यो वक्ता स स रागादिमानिति व्याप्त्यसिद्ध्या अनन्वयः॥
अनित्यः शब्दः कार्यत्वात् घटवदित्यत्र अन्वयसहचारसत्त्वेऽप्यप्रदर्शनादप्रदर्शितान्वयः । तत्रैव यदनित्यं तत्कृतकं यथा घट इत्युक्तौ विपरीतान्वयः ॥
वैधय॑दृष्टान्ताभासोऽपि नवविधः । असिद्ध. साध्यसाधनोभयव्यतिरेकसंदिग्धसाध्यसाधनोभयव्यतिरेकाव्यतिरेकाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकभेदात्॥
अनुमानं भ्रमः प्रमाणत्वात् यो भ्रमो न भवति स न भवति प्रमाणं यथा स्वप्रज्ञानमिति दृष्टान्तः स्वप्रज्ञाने भ्रमत्वनिवृत्त्यसिद्ध्या असिद्धसाध्यव्यतिरेकः । निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात् यन्न प्रत्यक्षं न तत् प्रमाणं यथानुमानमित्यत्रानुमानेऽप्रमाणत्वासिद्ध्याऽसिद्धसाधनव्यतिरेकः । घटो नित्यानित्यः सत्त्वात् यो न नित्यानित्यः न स सन् यथा पट इति दृष्टान्तोऽसिद्धसाध्यसाधनोभयव्यतिरेकः ॥
कपिलोऽसर्वज्ञः अक्षणिकैकान्तवादित्वात् यत्नैवं तन्नैवं यथा बुद्ध इति दृष्टान्तः सर्वज्ञत्वस्य बुद्धे संदिग्धतया संदिग्धसाध्यव्यतिरेकः । चैत्रोऽग्राह्य