SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षनिरूपणम् ( ६१ ) शक्तिरूपत्वादस्य द्रव्यत्वम् । अस्योपहते च निवृत्तीन्द्रियसत्त्वेऽपि नार्थग्रहः ॥ भावेन्द्रियमपि द्विविधम् लब्ध्युपयोग भेदात् । आत्मनिष्ठा इन्द्रियावरणक्षयोपशमरूपार्थग्रहणशक्तिर्लब्धिः। अर्थग्रहणनिमित्तः आत्मव्यापारपरिणामविशेष उपयोगः । अयमेव प्रत्यक्षं प्रति करणम् । समुदितान्येतानि शब्दाद्यर्थं गृह्णन्ति इन्द्रियव्यपदेशभाञ्जि च ।। तत्रेन्द्रियाणि चक्षूरसनघाणत्वक्श्रोत्ररूपाणि पश्च ।। " रूपग्राहकमिन्द्रियं चक्षुः अप्राप्य प्रकाशकारि । रूपं श्वेतरक्तपीतनीलकृष्णरूपेण पञ्चविधम् || रसग्राहकमिन्द्रियं रसनम् । प्राप्यकारि । रसचामलमधुरतिक्तकषायकटुभेदेन पञ्चविधः ॥ गन्धज्ञानासाधारणकारणमिन्द्रियं घ्राणम् । प्राप्यकारि । गन्धोऽपि सुरभिदुरभिभेदेन द्विविधः ॥ स्पर्शग्राहकमिन्द्रियं त्वक् प्राप्यप्रकाशकारिणी । शीतोष्ण स्निग्धरूक्ष मृदुकर्कश गुरुलघुरूपेणाष्टविधः स्पर्शः ॥ शब्दग्राहकमिन्द्रियं श्रोत्रम् | प्राप्यकारि । सचित्ताचित्तमिश्रभेदात् त्रिविधशब्दः ॥
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy