SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ मार्गणानिरूपणम् ... औपशमिकक्षायोपशमिकक्षायिकमिश्रसास्वादनमिथ्यारूपेण षट् सम्यक्त्वमार्गणाः। संज्ञासंज्ञिभेदेन द्विधा संज्ञिमार्गणा । समनस्कास्संज्ञिनो मनोहीना असंज्ञिनः॥ आहारकानाहारकभेदेन द्विविधाऽऽहारकमार्गणा । आहारकरणशीला आहारकास्तद्भिन्ना अनाहारकाः॥ तत्र नरगतिपश्चेन्द्रियजातित्रसकायभव्यसंज्ञियथाख्यानक्षायिकानाहारककेवलज्ञानकेवलदर्शनेषु मोक्षो न शेषेषु ॥ सिद्धजीवसंख्यानिरूपणं द्रव्यप्रमाणम् । तच्च सिद्धजीवानामनन्तत्वं बोध्यम् ॥ चतुर्दशरज्जूप्रमितस्य लोकस्य कियद्भागे सिद्धस्थानमिति विचारः क्षेत्रद्वारम् । लोकस्यासंख्येयभागे सिद्धशिलोवं सिद्धस्थानं, असंख्येयाकाशप्रदेशपरिमाणं सिद्धानां क्षेत्रावगाहो ज्ञेयः ॥ सिद्धात्मनोऽवगाहनाकाशपरिमाणतस्स्पर्शनावगाहना कियतीति विचारस्स्पर्शनाप्ररूपणा । अवगाहनातस्तेषामधिका स्पर्शना भवति ॥ सिद्धावस्थानं कियत्कालमिति विचारः काल
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy