SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ~~~~~~ ( ५२ ) तत्त्वन्यायविभाकरे वान्तरभेदा विंशत्युत्तरशतात्मका बोध्याः। विवृताश्चैते पुण्यपापतत्त्वयोः । उदये च सम्यक्त्वमोहनी. यमिश्रमोहनीयसहिता द्वाविंशत्युत्तरशतभेदा भवन्ति । सत्तायान्त्वष्टपश्चाशदुत्तरशतभेदाः स्युः । विवृताश्चैते सर्वे कर्मग्रन्थे । आत्मनो विशेषबोधावरणकारणं कर्म ज्ञानावरणम् । आत्मनः सामान्यबोधावरणसाधनं कर्म दर्शनावरणम्। सुखदुःखानुभवप्रयोजकं कर्म वेदनीयम् । रागद्वेषादिजनकं कर्म मोहनीयम् । गतिचतुष्टयस्थितिप्रयोजकं कर्म आयुः । बरकगत्यादिनानापर्यायप्रयोजकं कर्म नामकर्म । उच्चनीचजातिव्यवहारहेतुः कर्म गोत्रम् । आत्मनो वीर्यादिप्रतिबन्धकं कर्म अन्तरायकर्म ।। ___ ज्ञानदर्शनावरणवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोटिकालं यावत् , मोहनीयस्य सप्ततिसागरोपमकोटीकोटिकालं यावत्, विंशतिसागरोपमकोटीकोटिकालं यावन्नामगोत्रयोः, आयुषश्च त्रयस्त्रिंशत्सागरोपमकालं यावत्परास्थितिर्बोध्या । एवमेव वेदनीयस्य द्वादशमुहर्ता, नामगोत्रयोरष्टमुहृर्ता, शेषाणाश्चान्तर्मुहर्तमपरास्थितिरिति । · इति बन्धतत्त्वम्
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy