SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [१८४ ], वि०भा० गाथा [-], भाष्यं [ ३...], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] “आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः दिव्यतुटितानि - दिवसूर्याणि च तेषां शब्दाः सर्वदिव्यतुटितशब्दास्तेषां एकत्र मीठनेन य सङ्गतो नितरां नादो - महान् घोषः सर्वदिव्यतुटितशब्दसन्निनादस्तेन, 'ताए उक्किट्ठाए' इत्यादि तया देवजनप्रतिद्धया उत्कृष्टया - प्रशस्तया शीघ्र सञ्चरणात् त्वरितया - शीघ्रतरमेव तथा प्रदेशान्तरक्रमणात् चपलेव चपला तया - क्रोधाविष्टस्येव श्रमासंवेदनात् पण्डेव चण्डा तथा शीघ्रत्यगुणयोगात् शीघ्रा तया शीघ्रया परमोत्कृष्टवेगपरिणामोपेता जवना तथा वातोद्धूतस्य दिग स्तव्यापिनो रजस इव या गतिः सा उद्धता तथा, इत्थंभूतया दिव्यया देवगत्या 'आयाहिणं पयाहिणं करेंति' आ सर्वतः समन्तात् परिभ्रमतां दक्षिणमेव जन्मभवनं यथा भवति, एवं प्रदक्षिणं कुर्वन्ति, 'करयलपरिग्गहिय' मित्यादि द्वयोर्हस्तयोरन्योऽन्यान्तरिताङ्गुलिकयोः सम्पुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां कथंभूतामित्याह - करतठाभ्यां परिगृहीता-निष्पादिता करतलपरिगृहीता तां, तथा आवर्त्तनमावर्चः शिरस्यावर्त्तो यस्यां सा शिरस्यावर्त्ता 'कण्ठेकाल उरसिलोमेत्यादिवत् अलुक्समासः तामत एव मस्तके कृत्वा नमोऽस्तु ते तुभ्यं रलं भगवलक्षणं कुक्षौ धारयतीति रत्नकुक्षिधारिका तस्याः सम्बोधनं रलकुक्षिधारिके, जगतः प्रदीप इव जगत्प्रदीपस्तद्दायिके, चक्षुरिव चक्षुः चक्षुर्भाव चक्षुरि त्यर्थः तस्येदं भगवद्विशेषणं, भावचक्षुः किल विवेकरूपममूर्त्तं भवति भगवांश्च साक्षान्मूर्त इत्यत आह-मूर्त्तस्य, तथा सर्वजगज्जीववत्सलस्य 'छज्जीवहियं जिणा वेतीति वचनात् तथा हितकर्येव हितकरिका मार्गदेशिका च या बागृद्धिः - बाक्सम्पद् पुनः कथम्भूतेत्यत आह-विभुः- ध्यापिका सर्वस्वस्वभाषानुगमनेन परिणमनात् तस्याः प्रभुः-स्वामी हितकर| मार्गदेश कवा गुद्धिविभुप्रभुस्तस्य पुंवद्भावः समासस्य कर्मधारयत्वात् विभुशब्दस्य परनिपातः प्राकृतत्वात्, जिनस्य For Peace & Personal Use Only ~57~ wsanlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy