________________
गौतमकाण्डम्.
कारेणपालयो वास्तव्याश्वतीयाः पौञ्जिष्ठा औदजायना मान्धुक्षरा अञ्जगन्ध* इत्येते कारेणपालयो गौतमास्तेषां त्र्यार्षेयः प्रवरो भवति । आङ्गिरसगौतमकारेणपालेति होता । कारेणपालवद्गौतमवदङ्गिरोवदित्यध्वर्युः । गौतमानां सर्वे - षामविवाहः ॥
इति महाप्रवरे गौतमगोत्रकाण्डे षष्ठोध्यायः इति बोधायनोक्तं गौतमगोत्रकाण्डं समाप्तम्.
'
अथापस्तम्बाद्युक्तं गौतमगोत्रप्रवरकाण्डमुदाहरिष्यामः -- अथाङ्गिरस अयास्या गौतमास्तेषां त्र्यार्षेयः प्रवरो भवति । आङ्गिरसायास्यगौतमेति होता । गौतमवदयास्यवदङ्गिरोवदित्यध्वर्युः । अथौथ्या गौतमास्तेषां त्र्यार्षेयः प्रवरो भवति । आङ्गिरसौचथ्यगौतमेति । गौतमवदुचथ्यवदङ्गिरोवदिति । अथौ - शिजा गौतमास्तेषां त्र्यार्षेयः प्रवरो भवति । आङ्गिरसौशिजकाक्षीवतेति । कक्षीवद्वदुशिजवदङ्गिरोवदिति + । अथ वामदेव गौतमास्तेषां त्र्यार्षेयः ।
*श्वेदीयाः पौजिष्ट्रय औदुञ्जायना औलूक्या राजगन्धयः.
†अथ बृहदुक्था गौतमास्तेषां त्रयार्षेय आङ्गिरसबार्हदुक्थगौतमेति गौतमवहदुक्थवदङ्गिरोवदिति इति वाक्यमापस्तम्बसूत्रे दृश्यमानमत्र प्रवरमञ्जरीकोशे - नोपलभ्यते.