________________
૨૮
प्रवरमञ्जरी.
फलसिद्धिमनु पश्चादितरेषामपि फलसिद्धिस्स्यादित्यर्थः । तत्प्रधानत्वात् । नानागोत्राणां यजमानानां प्रतिगोत्रं प्रवरा अनुवर्तेरन् । कुतः ? आवापधर्मित्वात् प्रवरधर्मित्वात् । उप्यन्ते इत्यावापाः आहवनीयाः, 'अग्निं समावपेयुः' इति वचनात् । अथवाउप्यन्ते हवींष्याहवनीयेष्वित्यावापाः आहवनीयाः तेषामाहवनीयानामावापानां प्रवरान् प्रति धर्मित्वात् । तेषां चाहवनीयधर्माणां प्रवराणां प्रतिप्रधानमावृत्तिर्युक्ता, प्रधानवशवर्तित्वादङ्गानाम् । आहवनीयसंस्कारत्वं च प्रवराणामधस्तादेव व्याख्यातम् ॥
"
ननु पूर्वापरविरुद्धमभिहितं कथं नानागोत्रपक्षे विरुध्यमाना विशेषाः गृहपतिगोत्रान्वया इत्युक्तमधस्तात् । नैष दोषः । कथं ! आहवनीयानां सप्तर्ण्यपत्यसम्बन्धसङ्कीर्तनेन सम्बोधनात्मकाः प्रवराः ; प्रवरैश्च सम्बोधिता आहवनीया देवेभ्यो हव्यं वहन्तीत्यधस्तादुक्तं महाप्रवरभाष्ये । तत्र यदि गृहपतेरेव प्रवरः क्रियेत नेतरेषां कश्यपविश्वामित्रात्रिगोत्राणां यजमानानां [तदा] असम्बोधितत्वात् [ तेषामाहवनीया देवेभ्यो हव्यं न वहेयुः ।] तस्मात्तदर्थं काश्यपविश्वामित्रात्रेयेत्यादि प्रतिगोत्रं प्रवरावृत्तिर्युक्ता । किञ्च – गृहपतेराहवनीयोन्येषामनाहवनीय एव; यथा गृहपतेः पुत्रोन्येषामपुत्रः, सम्बन्धिवचनत्वात्पुत्रशब्दस्य । तथाऽऽहवनीयशब्दोपि सम्बन्धिवचन एव । अत एवाहवनीये गतेऽन्यस्याहवनीये नान्यो होमं करोति । अत एव चाहवनीयस्य प्रतिनिधिर्निषिद्धः षष्ठे प्रतिनिधिप्रकरणे देवतानिशब्द क्रियाणामन्यार्थसंयोगात् ' इत्यत्र । तस्मात्साधूक्तं नानागोत्राणां प्रतिगोत्रं प्रवरा आवर्तेरन्निति । स्थितेऽधिकरणे सन्देहःकिं नानागोत्राणामेव प्रवरा आवर्तेरन उत समानगोत्राणामपीति ? । तत्रागृह्यमाणविशेषत्वात्समानगोत्राणां प्रवरास्तन्त्रेणैवेत्येके मन्यन्ते ।
'न
*मीमां. ६-३-१८.