________________
महाप्रवराध्यायः.
१३
गणान्तरीयैः भृगुभिरेवाभिन्नविवाहं कुर्वते । अभिन्नानां विवाहोऽभिन्नविवाहः । एवमङ्गिरसोपि । तत्र भृग्वङ्गिरसोः सप्तर्षिबाह्यवेन तत्पक्षीयाणां गोत्राभावेन गोत्रसमानत्वाभावात् मिथो विवाहे नास्ति दोषः ; असमानप्रवरत्वात्, असमानगोत्रत्वाच्च । एवं सप्त
ग्रंपत्यबाह्यानां भग्वङ्गिरसां परस्परविवाह उक्तः । अत्रैव विशेषमाह-" न चेत् समानार्षया बहवस्स्युः ” इति । पञ्चायाणां ऋषित्रयसमानत्वं समानर्षिबहुत्वं यथा आर्टिषेणानां बिदानां च । ज्यालैयाणां ऋषिद्वयसमानत्वं समानर्षिबहुत्वं यथा हरितकुत्सानाम् । तदुभयं येषां भृग्वङ्गिरसां नास्ति ते परस्परं विवाहं कुर्वत इत्यर्थः । बोधायनग्रहणमात्मनः पूजार्थं, यथा जैमिनीये सूत्रे 'जैमिनेः परतन्त्रत्वापत्तेः स्वतन्त्रप्रतिषेधस्स्यात् ' * इत्यत्र जैमिनिग्रहणं तद्वत् । इतिकरणमध्यायसमाप्त्यर्थम् ॥
इति श्रीबोधायनीये महाप्रवरे प्रथमोध्यायः.
अथात ऊर्ध्वानध्वर्युर्वृणीतेऽमुतोर्वाचो होतेत्येष
एवोभयोस्सर्वत्रोद्देशः॥
अथ प्रवरकर्तव्यतोपदेशानन्तरं अतो हेतोः, यतो विज्ञाते क्रमविशेषे होतुरध्वर्योश्च वरणमग्निप्रार्थनं बहूनां मन्त्रदृशां वरणं कर्तुं शक्यते नाविज्ञाते, अतः क्रमविशेष उच्यते--अत उभंनित्यादिना । अयमर्थः-अतो यजमानादूर्ध्वान् मन्त्रदृम्भिरव्यवहितान् मूलभूताढषेः क्रमेण संकीर्त्य तद्वत्तद्वदिति सादृश्यसम्बन्धेन आहवनीयं प्रवृणीते प्रार्थयते, यथा वत्सानां जमदग्निवदूर्ववदनवानवच्च्यवनवगुवदिति । अमुतोर्वाचो होता-अमुतो मूलभूताढषेरारभ्या
*मीमां. १२-१-७.