________________
६
प्रवरमञ्जरी.
र्णमासयोरेवार्षेयवरणविधिपरं वाजसनेयिब्राह्मणं - " अथार्षेयं प्रवृणीत ऋषिभ्यश्चैवैनमेतद्देवेभ्यश्च निवेदयत्ययं महावीर्यो यो यज्ञं प्रापदिति तस्मादार्षेयं प्रवृणीते परस्तादर्वाक् प्रवृणीते परस्ताद्धय • र्वाच्यः प्रजाः प्रजायन्ते ज्यायसस्पतय उच्चैवेनं निह्नुत इदं हि स पितैवाग्रेऽथ पुत्रोथ पौत्रस्तस्मात्परस्तादर्वाक्प्रवृणीते " इति । तथाऽन्यत्रापि प्रतिशाखमुदाहर्तव्यम् । तथा गोत्रसम्बद्धान्यपि कानि चिदङ्गानि विहितानि यथा - " " त्वं वरुण ं इति वसिष्ठराजन्यानां परिधानीया 'आजुहोत । इतीतरेषां गोत्राणाम् " इति । तथा 'नाराशंसो द्वितीयः प्रयाजो वासिष्ठशुनकानां तनूनपादितरेषां गोत्राणाम्' इति । तथा ' वासिष्ठो ब्रह्मा ज्योतिष्टोमे' इति । तथा 'भृगूणां त्वा देवानाम्' इति भृगूणां यथर्याधानं विहितं, 'अङ्गिरसां त्वा देवानाम् ' t इत्यङ्गिरसां यथधानमिति । तथा 'जमदग्रीनां पञ्चावत्तमन्येषां गोत्राणां चतुरवत्तम्' इति । तथा राजसूये 'भार्गवो होता भवति' इति । तथा सोमे 'आत्रेयाय प्रथमाय हिरण्यं ददाति द्वितीयाय तृतीयाय च' इत्यादीनि तत्रतत्रोदाहर्तव्यानि । तथा स्मृतिकारैरपि सर्वैरकृताधानानामिव पतितानामिव चाकृतविवाहानां पुंसां कर्माधिकारानीतां मत्वा विवाहाविवाह गोत्रप्रवरोपाधिकावेव विहितौ । यथाsse याज्ञवल्क्यः
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।
उद्वहेत्.
इति । तत्रासमानार्षजा असमानप्रवरपुरुषजा, असमान गोत्रजा भिनगोत्र पुरुषजेत्यर्थः 1 आहापस्तम्बः- -" सगोत्राय दुहितरं न
*शतपथब्रा २-४-३.
+तै. बा. १-१-४.
---
+ 'तै,बा.३-५-२. § तै.सं. १-८-१८.