SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ अभिनवमाधवीयः. अथ मतान्तरमप्याहअविज्ञातस्वगोत्रश्चेदवेदाचार्यगोत्रकः ॥७३ ॥ आचार्यगोत्रप्रवरोदाहोऽप्यस्मिन्न सम्मतः । विज्ञातनिजगोत्रो यः स्वाचार्यतनुजां न सः॥७॥ तद्गोत्रप्रवरां कन्यां उद्वहेदिति केचन । माणवको यद्यविज्ञातगोत्रस्स्यात्तदा कंचिदाचार्य नियुज्य तद्गत्रो भवेत् । अत आचार्यगोत्रप्रवरोडाहोऽपि न कार्यः । अज्ञातकुलगोत्रः पित्राद्युपनयनकर्तभावादन्येन यापनीतः तत्तनुजां नोद्वहेत् । तद्गोत्रे तत्कुले चापि कन्यामुद्वहेदिति केचन वदन्ति ॥ तथा च प्रयोगपारिजातेसावित्रीं यस्य यो दद्यात्तत्कन्यां न स उद्वहेत् । तद्गोत्रे तत्कुले वापि विवाहो नैव दोषकृत् ॥ इति । केचनेत्यनेन सावित्रीप्रदातृप्रवर एव विवाहो निषिध्यत इत्यर्थः । लौगाक्षिः कश्यपसुतो वसिष्ठेनोपनीतत्वाद्वासिष्ठः काश्यपश्च । अतस्तद्वदन्यगोत्रोपनीतो द्वयामुष्यायण एवेति तद्ोत्रे त. स्कुले वाऽपि विवाहो निषिध्यत एवेत्यर्थः । यथा देबरातः पनसः शौङ्गशैशिरिः कपिलः धनञ्जयः जातूकर्ण्यः एतेषां पुत्रपौत्रादयश्च द्विगोत्रास्तद्वदित्यर्थः॥ मातुलस्य सुतोताहो बोधायनमुनीरितः ॥ ७५ ॥ दाक्षिणात्यैः स्मृतिव्याख्यानेषु शिष्टैस्सुसाधितः । बोधायनधर्म “पञ्चधा विप्रतिपत्तिः दक्षिणतस्तथोत्तरतो दक्षिणतोऽनुव्याख्यास्यामः पर्युषितभोजनं अनुपनीतेन सह भो.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy