________________
अभिनवमाधवीय.
३३५ अत्रास्वतन्त्रस्य कर्भारद्वौजस्सह नान्वयः । तेषामस्वतन्त्रकपीनां आङ्गिरसवाहस्पत्यभारद्वाजोति वा आङ्गिरसबार्हस्पत्यकापेयेति वा व्यायः प्रवरः । तेषां गोत्रकर्तुर्भरद्वाजस्य उभयत्र वरणात् मिथो नान्वय इति अस्वतन्त्रकपिविषये निषेध इत्यर्थः । बोधायनसूत्रे शुद्धाङ्गिरोगणेषु पठितानां स्वतन्त्रकपीनां आशिरसामहीयौरुक्षय्येति व्यायः प्रवरः । एतेषां भारद्वाजैस्समानगोत्रत्वाभावात् असमानप्रवरत्वाच्च विवाहोऽस्त्येव । अस्मिन्नर्थे प्रयोगदीपिका
आङ्गिरसा भरद्वाजा बार्हस्पत्याश्च कुत्सजाः। अग्निवैश्योर्जायनौ च ऋक्षाश्शुङ्गाः कतास्तथा ॥ सर्वे स्तम्बस्तम्भशब्दा वान्दनःयशैशिराः। कपयो मातवचसाः गार्ग्यश्येनौ च कापिलाः॥ भरद्वाजाभिधानास्स्युरेत एकोनविंशतिः। मिथो विवाहं नार्हन्ति समानप्रवरा यतः ॥
अस्यार्थः-अङ्गिर प्रभृत्येकोनविंशतिऋषयः भरद्वाजास्तेषामन्योन्यं न विवाहः । तत्र कतो विश्वामित्रगोत्रः । तेन भरद्वाजानां ने विवाहः ॥
तत्र विशेषःएतेषां तु विशेषोऽयमामहीयाभिधानकैः ॥४॥ औरुक्षय्यैश्च कपिभिः विवाहस्त्रिभिरिष्यते ।
आङ्गिरसामहीयौरुक्षय्येति स्वतन्त्रकपिगोत्रप्रवरः । एतैस्सह भरद्वाजानां विवाहः कार्यः । अस्मिन्नर्थे दीपिका च
कपी प्रसिद्धावुदिताविहं द्वौ स्वतन्त्र एकस्त्वपरोऽस्वतन्त्रः ।
तत्र स्वतन्त्रस्य कपर्विवाह मिथो भरद्वाजकुलस्य चाहुः ॥ इति. आपस्नम्बसङ्ग्रहे