________________
हरिः ओ.
पुरुषोत्तम विरचिता प्रव र मञ्जरी.
यज्जं यत्स्थं यदीयं जगदिदमखिलं यलयं यत्प्रधानं यत्प्रेर्यं यन्निवासस्थिरचरहृदयं यत्पुरा सम्प्रभूतम् । यत्क्रीडास्तुभूतं यदनुभवसुखं यत्स्वरूपानभिज्ञं यत्स्वापं यत्प्रबोधं यदतिहिततमं ब्रह्म तस्मै नमोस्तु ॥१॥ आचार्यान्वेदकल्पान्परहितनिरतान्कल्पसूत्रप्रणेतृन्
सर्वान्बोधायनादीन् प्रणिपतितजनत्राणशीलान्प्रणम्य । तत्सूत्रोपात्तगोत्रप्रवरसुमनसां मञ्जरीं तां करिष्ये यज्ज्ञानात्कर्मकाण्डं फलति निजफलं ज्ञानकाण्डं च सर्वम् ॥२॥
मत्स्यं कूर्मवराहखर्वनृहरीनामांश्च रामानुजं नवाssदौ दश कल्किविष्णुसहितान् ब्रह्मावतारानिमान् । तत्तत्प्रोक्त पुराणभारतगतास्स्मृत्यन्तरोक्ताश्च ये तैर्गोत्रप्रवरैश्च पूर्वगदितां बन्नाम्यहं मञ्जरीम् ॥३॥ कन्यामू द्वा स्वगोत्रप्रवरपुरुषजां मातृवदोषदण्ड- * प्रायश्चित्तादिभाक्स्याज्जनयति च सुतं जातिचण्डालमस्याम् । अज्ञात्वोद्रोपगम्य प्रतिगमनमर्हत्यैन्दवं सा च भार्या गर्भश्चेत्स्याददुष्टस्स मुनिभिरुदितः काश्यपो गोत्रविद्भिः ॥४॥
*शृ—दण्डः.