________________
भभिनवमाभनीयः..
३२५ स्पष्टोऽर्थः ॥ एको द्वौ वा त्रयो वाऽथ पञ्च वा प्रवरर्षयः। न षडाद्या न चत्वारः तथैव श्रुतिशासनात्॥१९॥
प्रवरे ऋषयः एको द्वौ वा त्रयो वाऽथ पञ्च वा भवितव्याः । न चत्वारो न षडाद्या भवन्ति । श्रुतौ 'एकं वृणीते द्वौ वृणीते त्रीन् वृणीते न चतुरो वृणीले न पश्चाति प्रवृणीते' इति नियमितत्वात् । भृगुगणे यस्कस्य बिदस्यार्टिषेणस्य त्रयाणां पञ्चार्षेयप्रवरः । आशिरोगणे कौमण्डस्य दीर्घतमसः काक्षायणस्य गर्गस्य चेति चतुर्णा पञ्चायप्रवरः । गर्गस्य व्यायप्रवरः । वि. श्वामित्रगणे पूरणाख्यस्य द्वयार्षेयप्रवरः । शुनकानां वसिष्ठानां च एकार्षेयप्रवरः । इतरेषां व्यायप्रवरः ॥ एक एव ऋषिर्यावत् प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वं अन्यत्राङ्गिरसो भृगोः ॥२०॥
। अङ्गिरसो भृगोरन्यत्र भृग्वङ्गिरोगणी विहाय प्रवरेषु इतरेषु एकः ऋषिर्यावद्वर्तते तावत्समानगोत्रत्वं भवति । 'शुद्धभृगवः शुद्धाङ्गिरसः गौतमो भरद्वाजो जमदग्निरनिर्विश्वामित्रः कश्यपोऽगगस्त्यो वसिष्ठः' इति एते दश गोत्रकर्तारः । तत्र शुद्धभृगुगणं शुद्धाङ्गिरसं च विहाय इतरेष्वष्टसु गणेषु एकऋष्यनुवर्तने स. मानगोत्रत्वम् । भृग्वङ्गिरोगणयोस्तु एकऋष्यनुवर्तनेऽपि न समानगोत्रत्वम् । यथा जमदग्निप्रवरे भृगुप्रवरे च भृगुरनुवर्तते । तथापि जमदनेश्शुद्धभृगूणां च समानप्रवरत्वं न भृगोर्गोत्रकर्तृत्वाभावात् । एवं गौतमप्रवरेषु शुद्धाङ्गिरोगणेषु च अनिरोऽ