________________
अमिनवमाधवीपः.
३२३
तेषां मध्ये तथाऽष्टानां यस्यापत्यमृषित्वभाक्॥११॥ तदस्य गोत्रमुदितं तदर्थं पाणिनेर्वचः।
यतो भृग्वङ्गिरसोः न गोत्रकर्तृत्वं अतस्तेषामगस्त्याष्टमानां मध्ये यस्यापत्यं सन्तानः ऋषित्वं भजते तदपत्यं तस्य ऋषेः गोत्रमिति बोधायनादिभिरभिहितम् । 'सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्वोत्रमित्याचक्षते' इति आश्वलायनसूत्रे लक्षणस्याभिहितत्वत् — अपत्यं पौत्रप्रभृति गोत्रम्' इति पाणिनीयसूत्रमपि तदर्यमभिदधाति सामान्यविषयं पाणिनीयसूत्रं विशेषविषयबोधायनसूत्रे पर्यवस्यति. गोत्रकर्तृत्वेऽपि भृग्वाङ्गिरसोः गोत्रकर्तृत्वं ‘जीवति तु वंश्ये युवा' इति पाणिन्याभहितयुवसंशावच्छब्दसाधुत्वार्थ मन्तव्यम् । भृगोर्गोत्रकर्तृत्वाभावात् । पुरस्तावक्ष्यमाणाः ‘यस्काः मित्रयुवाः वेनाश्शुनकाः' इति चत्वारश्शुद्धभृगवः. एते भृगवो न. एतेषामपि भृगुगणत्व एकगोत्रत्वाद्विवाहो न स्यात् . यतः पातित्यमापतेत्. एवमङ्गिरा अपि गोत्रकर्तृमुन्यष्टकान्तःपातित्वाभावात् । विष्णुवृद्ध कण्वप्रभृतयः शु. द्धाङ्गिरोगणाः. तेषामेव गोत्रत्वात् स्वस्वगणव्यातरिक्तः शुद्धागिरोभिार्ववाहो न स्यात्. विष्णुवृद्धादिसन्ततेरेव गोत्रशब्दवाच्यत्वम् . न तथाऽगिरगणसन्ततः गोत्रकृन्मुन्यष्टकसन्ततित्वाभावात् । अतो भृगुः यस्कमित्रयुवप्रभृतिषु अङ्गिरोविष्णुवृद्धकण्वादिषु च गोत्रशब्दस्सामान्यतः प्रवृत्तः अमुं गोत्रशब्दार्थ सम्यगज्ञात्वा वक्ष्यमाण*गोत्रव्यवहारो न शायते. जमदग्निगोत्रो भरद्वाजगोत्र इति व्यवहारस्तु जमदग्यादिगोत्रमेव गोत्रमिति मध्यमपदलोपसमासाश्रायणेन युज्यते ॥
*समान.