________________
अमिनवमाधवीयः.
३२१ स्पष्टोऽर्थः । तस्मादस्य गोत्रप्रवरनिर्णयाख्यग्रन्थस्य गोत्रप्रवरो विषयः. गोत्रप्रवरनिर्णयोऽवान्तरव्यापारः, स्वर्गापवर्गाद्याः परमप्रयोजनम्. ब्राह्मण्यरक्षणमानुषङ्गिक फलं. तत्र श्रौतस्मातकर्माधिकार्येवाधिकारी. शास्त्रस्य च विषयस्य च प्रतिपाद्यप्रतिपादकभावस्सम्बन्धः । विषयः प्रयोजनं सम्बन्धोऽधिकारी चेत्यनुबन्धचतुष्टयं विशेयम् ॥ ___ अथानुक्रमाणिकाप्रथमेऽत्र प्रकरणे परिभाषा निरूप्यते । द्वितीये जमदग्नेस्तु गोत्रं शुद्धभृगोस्ततः ॥ ६ ॥ तृतीये गौतमस्याथ भरद्वाजस्य तुर्यके । तत्रैव शुद्धाङ्गिरसः पञ्चमेऽत्रिमुनेस्ततः ॥ ७ ॥ विश्वामित्रस्य षष्ठेऽथ सप्तमे कश्यपस्य तु। वसिष्ठस्याष्टमे गोत्रं अगस्त्यस्य ततः परम् ॥८॥ दशमे क्षत्रियादीनां प्रवराचं निरूप्यते ।
अत्र गोत्रनिर्णयाख्ये ग्रन्थे प्रकरणानि दश । तत्र प्रथमप्रकरणे शास्त्रारम्भसमर्थनपूर्वकं परिभाषा निरूप्यते । द्वितीये प्रकरणे जमदग्निगोत्रं, शुद्धभृगुगणः । तृतीये प्रकरणे गौतमगोत्रकाण्डः । चतुर्थे प्रकरणे भरद्वाजगोत्रकाण्डः, शुद्धाङ्गिरोगणश्च । पञ्चमे प्रकरणे अत्रिगोत्रकाण्डः । षष्ठे प्रकरणे विश्वामित्रगोत्रकाण्डः । सतमे प्रकरणे कशएगोत्रकाण्डः । अष्टमे प्रकरणे वसिष्ठगोत्रकाण्डः । नवमे प्रकरणे अगस्त्यगोत्रकाण्डः । दशमे प्रकरणे क्षत्रियप्रवरवैश्यप्रवरसावर्णिकप्रवरतनूनपान्नाराशंसवि