________________
गोत्र प्रवर निर्ण यः. अभिनवमाधवाचार्यविरचितः सव्याख्यः.
प्रणम्य परमात्मानं स्वतस्सर्वार्थदायिनम् । श्रुतीनामादिवक्तारं निमित्तं जगतामपि ॥ १ ॥
श्रीमद्वदिकमार्गप्रवर्तकबोधायनापस्तम्बादिमहामुनिप्रणीतप्रवर*सूत्रेषु वैदिकमार्गरक्षणार्थ सहीतब्रह्ममीमांसादिविविधन्यायोपहितगोत्रप्रवरसूत्रतात्पर्य कलिकालमाहात्म्यानिर्गतुमक्षमाः गतानुगतिकभ्रान्त्या गोत्रप्रवरशास्त्रविरुद्धसमानगोत्रप्रवरवधूवर विवाहाद्यसत्कर्मप्रवर्तकाः वैदिकबालिशा घोरनरकेषु बहुकालं पतन्तीति शास्त्रदृष्टया विचार्य तेषां हितेच्छया गोत्रप्रवरनिर्णयाङ्गकौतस्मातकर्माणि कृत्वा स्वर्गापवर्गो विन्दन्त्विति मनीषया वैदिकमार्गप्रतिष्ठानिष्ठवसिष्ठान्वयसम्भूतोऽभिनवमाधवाचार्यः अत्यन्तगभीरगोत्रप्रवरशास्त्रसरित्पति शास्त्रविचारा. भिधमन्दरेण निर्मन्थ्य गोत्रप्रवरनिर्णयामृतं दुदुहे।
तस्यायमाद्यः श्लोकःसर्वेश्वरं प्रणम्याथ गोत्रसूत्रकृतो मुनीन् । तनुते माधवाचार्यो गोत्रप्रवरनिर्णयम् ॥१॥
*कल्प.