________________
न तत्तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः । सुपादावुपस्पृश्य शनैः प्रहृष्टो वाक्यमब्रवीत् ॥ गावमप्यस्मि भगवन् कृतकृत्यो न संशयः । पष्ट एष राजा वीर्येण स्वजातिं त्याजितो मया ॥ उभृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः । देवीतहब्यो महाराज ब्रह्मवादित्वमेव च ॥ इति ॥
तथा पुरूरवस्सन्ततिजश्शुनकः दुष्पन्तसन्ततिभवा मि. मुगलकण्वाश्च ब्रह्मर्षितामवापुरिति हरिवंशे एकोनत्रिंशद्वा. ध्याययोः प्रत्यपादि. तथैव च विष्णुवृद्धहरितरथोतरा भावमन्वभूवन्निति विष्णुपुराणादौ प्रतीयते. आर्टिषेणो यद्यपि केवलभार्गवेषु कचित्पठ्यते, तथापि निर्णयादिनिबन्धेषु जामदग्नयेष्वेव स गण्यत इति तमेव | साधीयांसं रोचयामहे. कथमन्यथा जामदग्नयैर्वत्सादिभिमनुद्वाहो निरुह्येतेति, तत्सिद्धं विप्राणामष्टादशैव सङ्घाः प. परं विवाहार्दा इति.
कल्पसूत्रकारास्तु केवलोपपदानां इतरै गुभिरभिरसैश्च हकारणं भङ्गयन्तरेण कथयन्ति. तद्यथाएक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरसां गणात् ॥ ध्यार्षयाणां व्यारेयसाम्ये अविवाहः । पञ्चार्षयाणां ज्यायसाम्येऽविवाहः ॥ इति
वस्तुतस्तु क्वचिदेकर्षिसाम्येऽपि समानप्रवरता अन्यत्र पार्षयादिसाम्ये सत्येवेति वैलक्षण्यकल्पनं सूत्रकृतां प्रागुपदशिविशेषानुसन्धानमूलकमेवेति सुधियो विदांकुर्वन्तु.
-
-
-