SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आपस्तम्वप्रवरखण्ड म. अथ हरितानां त्र्यार्षेय आङ्गिरसाम्बरीषयौवनाश्वेति । युवनाश्ववदम्बरीषवदङ्गिरोदिति || मान्धातारमु हैकेऽङ्गिरसस्स्थाने मान्धात्राम्बरी - यौवनाश्वेति । युवनाश्ववदम्बरीषवन्मान्धातृवदिति ३११ ॥ १५ ॥ मान्धातारमु हैकेऽङ्गिरसस्स्थान इच्छन्ति यतः चतुर्णी प्रवरः प्रतिषिध्यते अतस्तस्य स्मरणमनर्थकं मा भूदिति अङ्गरसा तस्यैव विकल्पो न्याय्य इति वाऽङ्गिरसो यथर्ष्याधाने कृतार्थत्वात् नैव प्रवरो न्याय्य इति ॥१५॥ अथ कुत्सानां त्र्यार्षेय आङ्गिरसमान्धात्रकौत्सेति कुत्सवन्मान्धातृवदङ्गिरोवदिति ॥ १६ ॥ मान्धातुरङ्गिरसश्च तुल्यत्वात् हरितकुत्सानामविवाहः । बहृचानां तु हरितकुत्सपिशङ्गशङ्ख दर्द है मगवानामिति कुत्सानामपि हरित(नामेव प्रवरः ॥ तेन च सुतरामविवाहः ॥ १६ ॥ अथाजमीढाः काण्वास्तेषां त्र्यार्षेय आङ्गिरसाजमीढकाण्वेति । कण्ववदजमीढवदङ्गिरोवदिति ॥ अथ विरूपा रथीतरास्तेषां त्र्यार्षेय आङ्गिरसवैरूपपार्षदश्वेति । पृषदश्ववद्विरूपवदङ्गिरोवदिति ॥ अष्टादंष्ट्रमु हैकेऽङ्गिरसस्स्थानेऽष्टादंष्ट्रवैरूपपार्षदश्वेति । पृषदश्ववद्विरूपवदष्टा दंष्ट्रवदिति ।। १७ ।। 40
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy