________________
आपस्तम्ब प्रवरखण्डम्.
अथ वा अग्रग्रहणं प्रथममेषां भृगुणा समाख्यानं पश्चादन्यैः ऋषिभिश्चेति ख्यापनार्थम् । तेन जमदग्नीनामौर्वो गौतमः यथाधानं भार्गवस्येत्येवमादौ तदपत्यानां ग्रहणं समाख्यानसिद्धं भवतीति । एवकारस्य तु पूर्वोक्तमेव प्रयोजनम् ॥ ११ ॥
जामदग्ना वत्सास्तेषां पञ्चायो भार्गवच्यावनाप्नवानौर्वजामदग्नयेति । जमदग्निवदूर्ववदनवानवच्चयवनवद्गुवदिति
॥१२॥ जामदग्ना भवन्ति वत्सास्तेषां पञ्चायः प्रवरो भवति॥ भार्गवच्यावनाप्नवानौर्वजामदग्नयेति होता प्रवृणीते । जमदग्निवदूर्ववदन्नवानवञ्चयवनवद्भगुवदिति अध्वर्युः प्रवृणीते । होतुः प्रवरोऽध्वर्योः प्रवर इति वाऽध्याहारः ॥ एवं सर्वत्र ॥ १२ ॥
व्यायम हैक भार्गवौर्वजामदग्नयेति जमदग्निवदूर्ववद्वगुवदिति
॥१३॥ उ हेत्यवधारणे इति होता प्रवृणीते भार्गवीर्वजामदग्नयेति । जमदग्निवदूर्वद्भगुवदित्यध्वर्युः प्रवृणीते ॥ अस्य 'जामदनयोजामदग्नयमामनन्त्येके' इत्येकवचनान्तेन प्रयोगदर्शनात् बहुवचनान्ते 'जामदग्ना वत्सा जमदग्नीनां तु पञ्चावत्तं' इति दशनात् शिवादिषु गर्गादिषु च पाठोऽनुमेयः ॥ जमदग्निशब्दस्य शिवादिषु पाठाजामदग्नः । जमदग्निशब्दस्य गर्गादिषु पाठाजामदग्नयशब्दे बहुष्वंपत्यप्रत्ययस्य लुक् स्यात् ॥१३॥
एष एवाविकृतः सावर्णिजीवन्तिजाबाल्यैतिशायनवैरोहित्यावटमण्डुप्राचीनयोग्यानाम् ॥११॥