________________
૨૮૮
वृत्तियुतं. क्या-'अरोगिणीं भ्रातृमतीमसमानर्षगोत्रजाम्' इति । तथा'पिण्डगोत्रऋषिसम्बन्धा रिक्थं भजेरन्' इत्येवं व्यवहारा बहवः सन्ति । अस्मिंस्तु सूत्रे गोत्रशब्द आप्यादेरनुष्ठेषत्वादनर्थमित्येकत्वादेकोपाधिवचनेनाभिप्रेतः । ‘यावन्तोऽनन्तहिताः समानगोत्रास्तावतां सकृत्' इत्यत्र सूत्रे समानप्रवरमात्रोपाधित्रचनो गोत्रशब्दः प्रयुक्तः । यस्त्वगस्त्याएमानां अन्येष्वपि गोत्र शब्दो लोके प्रयुज्यमानो दृश्यते मित्रयुवगोत्रोऽहं मुद्गलगोत्रोऽ. हमित्येवमादिषु, स चौपचारिकोऽपरामर्शजः प्रयोगः अगस्त्याटमानामपत्येषु भयास्यगर्गकुण्डिनादिषु गौतमभरद्वाजवसिष्ठादिषु गोत्रत्वमास्त, तत्सामान्यं दृष्ट्वा मित्रयुवमुद्गलादिषु अपरामर्शन लौकिकाः प्रयुञ्जते । अस्यायमर्थः इति स्मरन्ति । अतो भगवतो बोधायनस्य स्मृत्यन्तर उक्त एव गोत्रशब्दस्यार्थ इति निश्चिनुमः । व्याकरणस्मृतिचाप्यस्या न बाधिका सामान्यविशेषरूपत्वात्तयोः ॥ ___ अपि नानागोत्राः स्युरिति शौनकस्तन्त्राणां व्यापित्वात् ॥
॥२॥ गाणगारिणा समानविधानानामेव सत्रसम्बन्धे उक्त शौनक आचार्य आह समानगोत्राणामेवेति न नियमः । नानागोत्रा अपि सत्रमासीरनिनि । कुतः? तन्त्राणां व्यापित्वात् । तन्त्रशब्देनात्र सर्वपुरुषसाधारणोऽङ्गसमुदाय उच्यते । तस्य च व्यापित्वमस्त्यये ॥
॥२॥ कथं पुनरसाधारण इति पदार्थ इति तत्राहगृहपतिगोत्रान्वया विशेषाः॥ ॥३॥
अयमर्थः-ये विशेषा असाधारणाः ते गृहपतिगोत्रान्वया प्रहपतिविधानानुगुणाः कर्तव्याः । एतदुक्तं भवति-असमान